पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः नितान्तं व्यस्त आसीत् । किन्तु सतीर्थ्यानां अनुरोधमपि सः नोपै- क्षत । ब्रह्मानन्दप्रभृतीन् सतीर्थ्यान्, पाश्चात्यान् तथा मद्रास- निवासिनः शिष्यांचादाय स दार्जीलिङ्गशैलावासे कतिचन दिनान्य- वस्थातु तत्रायासीत् । २५४ पर्वतस्य वायुजलयोः एवं निर्जने परिवेशे आगत्य स्वामी नितांत मुमुदे । परन्तु या विश्रान्तिः तत्स्वास्थ्योद्धारार्थं विशेषतया अपेक्षि ताऽऽसीत् तां स नाप्तवान् । भूयसीनां योजनानां साकारतासम्पादने स सुतरां व्यस्तो बभूव । खेतडीराजेन मिलितु तेन स्वल्पदिनार्थं कलिकात्तायामागन्त- व्यमापतितम् । राज्ञा सह आलमबाजार-मठे पाश्चात्त्यदेशेषु प्रचार- कार्यसञ्चालनस्याऽऽलोचना भूयसी समपद्यत । विशेषतः तं स्वात्मना सह इङ्गलन्डं नेतुमेव राजा तत्राऽऽययौ । परन्तु भारतीय कार्य दायित्व विचिन्त्य स्वामिनस्तत् सम्भवं नाभवत् । स्वामी पुनर्जीलिंग प्रत्याववृते। किंतु तन्मानसे याश्चिंता: समुत्थिता अभूवन् तासां कार्यरूपेण परिणमनमन्तरा स पर्वतेऽपि व्याकुलतामन्वभवत् । पर्वतादवतीर्य आलमबाजारमठे संघटनकार्ये स्वामी घृतव्रतोऽभूत् । अत्र सः चतुरो ब्रह्मचारिणः संन्यास-धर्मे दीक्षितान् विदधे । मठवासिनामाध्यात्मिकजीवनसंघटनमपि तस्य विशिष्टं महच्चैकं कार्यमवर्तत । .. पाश्चात्त्यानां संहति-शक्तिः तं मुग्धमातनोत् । संहतिमन्तरेण किमपि स्थायि बृहत् कार्य सम्भवं न भवति । अतः स संन्यासिनो भक्तगृहस्थांश्चादाय संघरचनाया व्यवस्थामकार्षीत् । १८६७ ई० वत्सरस्य मईमासस्य प्रथमो दिवसः विशेषतया स्मरणोयः । स्वामिन आह्वानेन बागबाजारस्थिते बलरामबसुभवने आश्रमिकास्तथा गृहस्थ- भक्ताश्च जना एकत्र समवेयुः | स्वामी सर्वानुद्दिश्य संघटनस्याव- श्यकतां बोधयन्नाह –“सुनियंत्रितं प्रतिष्ठानं विना किमपि बृहत् कार्य