युगाचार्य - विवेकानन्दः नेता सुभाषचन्द्रवसुः निजचरिते अलिखत्–“स्वामी विवेकानन्दः यदा मम जीवने प्रविष्टोऽभूत् तस्मिन् समये मदीयं वयः पञ्चदशवर्षेभ्योऽपि न्यूनमभृत् । ततः परं ममान्तरे प्रचण्डो विसव आयात् तथा सर्वमस्तव्यस्तमभूत् । तस्य वीरताव्यञ्जिकायाः प्रतिकृत्याः तथा शक्तिपूर्णवाण्या माध्यमेन च स्वामी मदभिमुखं पूर्ण- विकसितादर्शव्यक्तिरूपेण आविरभूत् एवं स यस्य पथः निर्देशं चकार तस्य सम्बन्ध एवाहं गभीर चिन्तायां न्यमज्जम् । सदस्थिमज्जान्तरं यावत् एकस्या अभिनवायाः जागर्ते: सृष्टि: बभूव । दिनानुदिनम्, सप्ताहानुसप्ताहम्, मासानुमासम् अहं एकाग्रचित्तेन तद्वाणीं तथा तद्र- चनावलीं पठितु उपाक्रमम् | तस्य पत्रावल्यां तथा कोलम्बोत अल- नोडापर्यन्तं प्रदत्तायां व्याख्यानमालायां देशवासिभ्य एतावान् अधिकः कार्यकर उपदेशोऽस्ति यो महृदयं विपुलभावेनानुप्राणितुमारेभे ।”
२५२ कोलम्बोतो मद्रासपर्यन्तं तथा ततः परं कलिकात्तायां देशवासिनां पक्षतः स्वामिने यद् राजोचितं अभिनन्दनं प्रादायि ततः स विशे संकोचान्वितः तथा क्लान्तश्च समपद्यत । अस्माद् विजयाभियानात् तथा भाषणादितः आत्मानं मोचयित्वा स संघटनमूलके कार्य धृत- व्रतोऽभवत् । अत एव संदृश्यते यत् कतिपयदिवसानन्तरं कलिकात्तायां 'स्टारथियेटर' स्थाने "सर्वावयववेदान्त" नाम्ना एकं भाषणं दत्त्वा सव्याख्यान पर्व समाप्तमकरोत् । अनेफे सतीर्थ्याः तत्पार्श्वमेत्य समुपतस्थिरे । १८६७ ई० वर्षस्य मार्चमासान्ते स्वामिविवेकानन्दः रामकृष्णानन्दं मद्रास-नगरे वेदान्त- प्रचारार्थ प्रेषयामास । सः मद्रनगरे स्थायि केन्द्र संस्थाप्य नगरस्य विभिन्नेषु भागेषु क्रमशः सप्ताहे १०।१२ कक्षाः कृत्वा भाषणं प्रददौ । अनेनैव क्रमेण स्वल्पदिवसाभ्यन्तरे समस्ते दक्षिणभारते अनेकाः