पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः सादृश्यमालक्ष्य स विस्मितो- पासनापद्धत्या साकं हिन्दुधर्मानुष्ठानस्य ऽभवत् । रोमतो नेपल्सं ययौ । अत्र गुडविन : समायात् । दिसम्बर- मासस्य ३० तारिकायां नेपल्सतः पोतः प्रातिष्ठत । १८६७ ई० अन्दे जनवरीमासस्य १५ तारिकायां पोतः कोलम्बोनगरं समायास्यति इत्यासीत् ।... २३४ पाश्चात्त्यदेशान् पृष्ठतः कृत्वा स्वामी पूर्वाभिमुखं अग्रसरोऽभवत् । पाश्चात्त्य देशगमनसमये तद्विपरीतता आसीत् । अस्मिन पर्याये सहचरा अल्पीयांसः । अतस्तस्य गभीरचिन्तायाः पर्याप्त अवकाश आसीत् । स्वामिनः समग्रमन्तःकरणं भारतचिन्तायां न्यमज्जत् । किं स पाश्चात्त्यतः रिक्तहस्तः परावर्तते ? नैव, सः अनल्पं सचित्य परावर्तत । सर्व भारतस्योन्नतिकार्ये विनियुज्यते । प्रतीच्यजनानां संघटनशक्तिः विज्ञानं कर्मपरायणता, अदम्य उत्साहः - सर्वमिदं भारतीयजातिजीवनाय – आवश्यकम् । किन्तु कया प्रणाल्या तत् कार्ये संलग्नं भवेत् ? इदमेव तस्य चिन्ताविषयमासीत् । दरिद्रान् से न व्यस्मरत् । अत्रापि तस्य ध्यानं गतं बभूव यत् गणतन्त्रदेशेष्वपि बाह्येष्वाचार- विचारेषु यद्यपि तावदन्तरं न लक्ष्यते, तथाऽपि तेषु देशेष्वपि निपीडितमानवानां संख्या नाल्पीयसी बभूव । अतः तस्य आन्तरिकवेदनानुभूतिः सर्वा अपि सीमारेखा अतिलंध्य समस्त संसारस्य दरिद्रान् एवं निपीडितजनान् प्रति प्रवाहिताऽभूत् । 'संसारस्य शूद्रशक्तिरुद्द्बोधनीया' अयमेवासीत् तस्य प्रणः ।... डेट्रएट-वासिनः कतिपय शिष्यान् स प्राह – “यथार्थतः मत्कार्य - स्यादरः केवलं भारतवर्ष एव भवितुमर्हति । ते जानी: यद कोहग्विधानि रत्नानि निजशरीराद् रक्तं प्रवाह्य निरन्तरं विकिरन्नस्मि । एतेषां रत्नानां सम्पूर्णः समादरः केवलं तस्मिन्नेव देशे सम्भवी एवं तथैव भविष्यत्यपि । इतोऽपि कानिचन दिनानि प्रतीक्षा क्रियताम्, भारतस्य मूलग्रन्थिरपि विकम्पितो भवेत् तथा तस्य धमनीषु विद्युच्छक्तिः