युगाचार्य - विवेकानन्दः रूपेणोपलभ्यन्ते तत्सर्वं गुड्विन-महोदयस्याविस्मरणीया कीर्तिरस्ति । * स्वामी कर्मयोगभक्तियोगयोः सम्बन्धे यानि भाषणानि प्रददौ तान्यपि पुस्तकात्मना प्रकाशितानि भवितुमशक्नुवन् । २२१ न्यूयार्क कार्य सुप्रतिष्ठितं विधाय स्वामी गुड्विनं समादाय 'डेट्रएट' नगरं पञ्चदशदिवसार्थ प्रययौ । तस्मिन् समये स आत्मानं विभज्य नूनं व्यतर दिव | अनुदिनं भाषणातिरिक्ततया तेन बहुभिः जनैः साकं वार्तालापा अपि कर्तव्या बभूवुः । तस्यान्तिमदिनभाषणस्य सम्बन्धे एकः प्रत्यक्षदर्शी इत्थं व्यावर्णयत् - " डेट्रएटजनसामान्याय स्वामी 'बेथलमन्दिरे' अन्तिमं दर्शनं प्रादात् । स्वामिनोऽनुरागी भक्त- 'रैबाई लुई प्रोसमैनः' तस्य यहूदीमन्दिरस्य अर्चक आसीत् । तद् दिनं रविवासर आसीत् । सायं समये जनस्तोम एतावद् अवर्धत यद अस्माकं भयं समजायत यत् विह्वला जनाः किमि किमपि काण्ड अनुतिष्ठेयुरिति । मार्गोपर्यपि जनसम्मर्द आस्त तथा शतशो जनाः परावर्तन्तापि। स्वामी विवेकानन्द एतां वृहतीं श्रोतृमण्डलीं मन्त्रमुग्धा- मकरोत् । तद्द्विसस्य भाषणविषयः- "पाश्चात्त्यजगत् प्रति भारतस्य - -
- स्वामी गुड्विने भरि स्निह्यति स्म । सोऽभ्यधात् 'मम विश्वासास्पदं
गुड्विनः मम पाश्चात्य देशात्परावर्तनात्परं १८६८० वर्षस्य कस्मिन्नपि समये 'मद्रास-मेल' - समाचारपत्रस्य सम्पादकीय विभागे नियुक्ति प्राप्य मद्रनगर समाययौ । एवं १८६६ ई० जूनमासद्वितीय दिवसे नीलगिरौ ( Ooty ) ज्वरविशषेणाक्रान्तः ( Enteric Fever ) सहसा दिवं गतः । तस्मिन् समये तदन्तिके लघुलिपिनु स्वामिनः बहवो वक्त ताः आसन् । नियुक्तिग्रहणानन्तरं स त सां बक्तृतानां प्रचलिताङ्गलभाषायां लिखितुमवसरं नालभत इति भाति । तेन स्वामिनः शताधिका वक्त ताः एवं वार्तालापाश्च विनष्टाः । स्वामिनः सर्वाण्यपि भाषणानि यदि प्रकाशितान्यभविष्यन् तदा संसारस्य ज्ञानभण्डारः इतोऽप्यधिकं समृद्धोऽभविष्यत् ।