पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः २६ मगमत् । तस्मिन् समयेऽपि तेन तत्र स्वामिनः प्रचारस्य भूयान् प्रभावः समलक्ष्यत । अस्मद्देशीयाः प्राचीना जना 'हिन्दुधर्म' शब्देन यत्किमपि विजानन्ति स्वामी तथाविधस्य हिन्दुधर्मस्य प्रचारार्थं लन्दनं न ययौ । 'वेस्टमिनिस्टर-गजट्' संवाददातुः प्रश्नस्योत्तरे स्वामी अकथयत् –“कमपि नवं सम्प्रदाय स्थापयितुं नाहमिहायातः । मम गुरुदेवश्रीरामकृष्ण परमहंसदेवात् अहं यं संदेश प्राप्तवान् तस्यैव संसारे प्रचारणं मदुद्देश्यमस्ति । तथा अहं विश्वसिमि वेदान्तस्यो- दारभाव सर्वे सम्प्रदाया: निज-निजं धर्ममतं रक्षन्तो ग्रहीतु शक्नुवन्ति । " स्वामिनः उदारभावेन स संवाददाता एतावदधिकं प्रभावितोऽभूत् यत् स 'लन्दने भारतीययोगी' नाम्ना स्वामिनः सम्बन्धे तस्मिन्नेव समाचारपत्रे विशिष्टतथ्यपूर्ण निबन्धमलिखत् । लन्दने स्वामिनः प्रचारकार्य समीचीनतया अग्रसरमभवत्, किंतु अमेरिकायाः शिष्यवर्ग: तं प्रत्यागन्तुं वारं वारं पत्रमलिखत् । तथा अमेरिकायां कार्यस्य स्थायित्वविषयेऽपि विचार्यं स अमेरिकां प्रत्या- गन्तु सन्नद्धो बभूव । लन्दनतः स्वामी १८६५ ई. नवम्बरमासस्य १८ तारिकायाम् आला- सिङ्गं समसूचयत् – “इङ्गलन्डे मदीयं कार्यम् अत्युत्तमं संवृत्तम् । इदं विलोक्य ममैवाश्चर्यमजायत । आङ्गला जनाः समाचारपत्रेषु घटाटोपं न कुर्वन्ति, अपि तु ते तूष्णीं कुर्वन्ति ।... वृन्दशो जनाः आयान्ति । किंतु एतावतां जनानां कृते मम स्थाने अवकाशो न विद्यते । तस्मात् कारणात् कर्तुं शिक्षितवन्तः तथा भारतीयं धर्ममतम् एवं आध्यात्मिकतत्त्वानि श्रोतुं सातिशयमाग्रहं प्राकटयन् ।" न केवलमाङ्गलेयेष्वेव, स्वामिनः प्रचारात् समस्ते 'आङ्गलोसेक्सन्' जात्यभ्यन्तरे भारतीयधर्मस्य तथा संस्कृतेश्च सम्बन्धे ज्ञातुम् एवं ते जातीयजीवने परिणमयितुं चेष्टा बलवती प्रावर्तत ।