पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः स्थानम् अमन्यत । तस्यैकस्मिन् पत्रे लिखितं दृश्यते–“...आङ्गलेयानां सम्बन्धे मदीया धारणा आमूलं परिवृत्ता संवृत्ता | बृटिश-समाजे सत्स्वपि परश्शतेषु दोषेषु कस्या अपि भावधारायाः प्रचारस्य यन्त्ररूपेण स सर्वश्रेष्ठ वर्तते । अहं निजविचारान् अस्या जाते: केन्द्रस्थले निधातुं बांछामि, तेन ते संसारे प्रसरिष्यन्ति ।...” २१४ आङ्गलजातीनां सम्बन्धे तस्य मन्तव्यम् – “आङ्गलान् प्रति मत्तोऽधिकघृणाभावं समादाय बृटिशभूमौ कोऽपि नाऽऽययौ तथा सम्प्रति अत्र तादृशः कोऽपि नोपस्थितः यः आङ्गलजातिं मत्तोऽधिकं स्त्रियति ।” एत्र इङ्गलन्डस्य उच्चवर्गीयाणां जनानां निकेतनेषु या महत्य आलोचना- सभाः भवन्ति स्म तासामेकतमस्या नितान्तसुन्दरं चित्रं समाचारपत्रे दरीदृश्यते – “यथार्थत लन्दनस्य मानमीयपरिवाराणां महिला आसन्दीनामलाभात् वास्तविकभारतीयशिष्यवत् सश्रद्धं तलभूमावेव सपादाकुञ्चनम् उपविश्य व्याख्यानं यदशृण्वन् तद् एकं विरलं दृश्यमासीत् ! स्वामी आङ्गलानां हृदये भारतं प्रति यत् प्रेम तथा सहानुभूर्ति संचारयामास तत् भारतस्य उन्नतये सुतरां सहायकं भविष्यति ।" इङ्गलन्डस्य 'इन्डियन - मिरर' - पत्रे प्रकाशित- मासीत् – “. वयं सानन्दं लिखामः यत् स्वामी विवेकानन्दः लन्दनस्य अनेकासां महिलानां तथा विशिष्टसज्जनानां च दृष्टिमाकृष्टामकरोत् । तस्य हिन्दुदर्शनस्य तथा योगसम्बन्धिनः कक्षासु अनेके उत्साहिन धर्मंपिपासवः तथा श्रद्धालवः श्रोतार उपतिष्ठन्ते । " स्वामी त्रिवार लन्दनं समाययौ । १८६५ ई० वर्षे प्रायेण मास- त्रयम्, १८६६ ई० वत्सरस्य प्रथमभागे प्रायो मासचतुष्टयम्, तथा तस्मिन्नेव वर्षेऽन्तिमभागे मासत्रयं स्वामी तत्र प्रचारकार्य प्राचालयत् । इङ्गलन्डे तस्य वेदान्तप्रचार: अतिमात्रमेव सफलोऽजायत । तत्फल- स्वरूपेण स तादृशान् कतिपयान् आङ्गलान् प्राप, ये तस्य कार्ये स्वात्मानं