युगाचार्य-विवेकानन्दः सम्मेलनं यावत् तत्रावस्थानोपयोगि धनं च तस्य समीपे नास्ति । • सर्वमेव नैराश्यव्यंजकं जातम् । वयन्तु स्वामिमहोदयस्य तदानीन्तनीं मनसोऽवस्थां ज्ञातुमेवाहा॑मः । सोऽभिभूत इव जातः । किंकर्त्तव्य- विमूढः सन् स मद्रासदेशीयशिष्यान् निकषा साहाय्याय समुद्र-तारं प्रेरितवान् एवं सर्वामेवावस्थां विवृत्य पत्रमलिखत् । समन्तात् तमो- भिरावृता दिक— कुत्रापि आलोकः कियानपि नाश्यत । तथापि स आशां न त्यक्तवान् । स्थिरं निरचिनोत् यत् येन रूपेणापि भवतु अन्तं यावत् यत्नः कर्त्तव्यः । स श्रीभगवतो निर्देशं लब्धवान् । शतशो नैराश्यमध्येsपि स एव विश्वासः साहसञ्च तम् अनुप्रेरयतः स्म । १८१ शिकागो-नगरीस्थे होटल-भवने व्ययोऽतीवाधिकः । स संवादमेतं प्राप्तवान् यत् वष्टननगरे व्ययोऽतिस्वल्पस्तदपेक्षया । स वष्टनाभिमुखं गतवान् । श्रीभगवान् उत्साह सम्पन्नानां चिर-सहायः । यत्रैव विवेका- नन्दोऽगच्छत् तत्रत्यानामनेकेषां दृष्टि स समाकर्षत् । बष्टन-गमन- पथे वाप्पीय-यान- मध्ये तस्याकृतिः संलापश्च एकां सहयात्रिणीं मोहयतः स्म । सहयात्रिणी ब्रिजिमेडोज-जनपदस्य काचित् सम्भ्रान्ता महिला । सा हि स्वामिमहोदयमामन्त्र्य स्वस्य एव भवनमनयत् । एतेन तस्याने- के विषयेषु परं सौविध्य मेवाभवत् । ब्रिजिमेडोज-जनपदात् ( अगस्त- मासस्य विंशे दिने १८८३ ईसाब्दे ) स आलासिंगाम् अलिखत्, यत् “...अत्रावस्थानेन मम एतदेव सोविध्यं भवति, यन्मे होटलभवने प्रत्यहव्ययितम् एकं पाउन्डमितं धनं न व्ययितम् भवति । एवञ्च तस्या महिलाया एप एव लाभः यत् सा स्वीयबन्धूनामन्त्र्य भारतात् आगतम् एकमद्भुतं जीवमदर्शयत् !!! एताः समस्ता यन्त्रणा : सहनीया एव । मया तु सम्प्रति अनाहारः, शीतं, ममाद्भुतपरिच्छदस्य कृते यथागच्छतां लोकानामुपहासः एवमादिभिः सह संग्रामं कृत्वेव गन्तव्यम् । प्रिय वत्स ! एतत् ज्ञातव्यं, यत् किमपि महत् कार्य गुरुतर- परिश्रमं विना, क्लेशस्त्रोकारं वा विना न सम्पद्यते । एकस्तु विषयो
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१९१
दिखावट