पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ समुद्रवाष्पयाने बहिः प्रकोष्ठस्य ( डेक ) उपरि दण्डायमानः निर्नि- मेपनयनः स्वामिमहोदयो भारतस्य तीरभूमिमालोक्य स्थित एवासीत् । महिममयं भारतवर्षम् ! अहो ! पराधीनं परपददलितं भारतवर्षम् ! भारतस्य चिन्ता शतधारया तस्यान्तरम् अधिकृतवती । सोऽधीरो बभूव । तस्य मनसि चराहनगरस्थस्य मठस्य गुरुबन्धूनामपि चिन्ता समुदियाय । समुद्रगामिवाष्पोययानमपि मुम्बई-नगरात् बहिर्गत्वा सिंहल-पिनां- सिंगापुर-हंकांग-नगराभिमुखं अग्रेसरमभवत् । ततः कैन्टन-नागासाकि ओसाका किओटो-टोकिओ-नगराणि अवलोक्य स्थलपथेन स्वामी , योकोहामामाजगाम । सुदूरप्राच्यदेशेषु प्राचीनार्यसभ्यतायाः प्रभावः कियानपतत् तत्सविशेष लक्ष्योकुर्वन्नगच्छत् । परन एशियाभूखण्डस्य आध्यात्मिकीमकतामालोच्य तत्रापि स्थिरतरसिद्धान्तेऽवस्थितोऽभवत् । जापानप्रदेशीया वर्तमानयुगोपयोगिनी सर्वतोमुखी समुन्नतिस्तस्य दृष्टिं विशेषरूपेण आकृष्टामकरोत् । कतिवर्षेषु एव स्वाधीनो जापान: अन्यैश्च पाश्चात्त्यजातीयैः सह स्पर्धा कृत्वा आश्चर्यान्वितामुन्नति- मकरोत् । तदा मुष्टिमितः स्वल्पसंख्यको जापानवासी चत्वारिंशत्- कोटिसंख्यक-चीनदेशीयानां प्रतिद्वन्द्वो भूत्वा युद्धे जयलाभमकरोत् । तेनैव तेषाम् आत्मविश्वासस्य संहतिशक्तेश्च परिचयः प्राप्यते । संहति- शक्तेर्जयोऽपि घोषितः । तदा चीनदेशे एकताया एकान्तोऽभावः, अन्तर्विप्लवश्चासीत् ।

  • स्वामिमहोदयस्तु अवदत् यत् सामयिकरूपेण जापानं निकषा चीनदेश(येषु