युगाचार्य- विवेकानन्दः 7 तेषु तस्य प्रधानन्यायालयस्यैको महान् एटार्नी: आसीत् । तस्य बुद्धिरतितीक्ष्णा मेधा च प्रबला बभूव । विद्यायां बुद्धौ ज्ञानगौरवे च न तस्य तुलां कोsपि बिभर्ति स्म। स चैको महान् उदारमना: संसारे समुद पद्यत । बाईबिले, फारसीभाषाकवे: हाफिजस्य च निरतिशयं प्रेमाविद्यत । तेन बहूनि धनान्यर्जितानि । धनानां व्ययो- ऽप्युदारहस्तेनाक्रियत । दानं परोपकारोऽपि पर्याप्तं यथेष्टवाविद्येताम् । पाकनिर्माणकर्मणि स हि दक्षोऽभवत् । लोकेभ्यो भोजनदानं तस्मै बहु रोचते स्म । दयाऽपि इयती समभूद यद् बहून् निर्धनान् दूरसम्पर्क- वतः कुटुम्बिनश्च महताऽऽदरेण पर्यपालयत् । तेषां मादकपदार्थ- सेबनार्थं द्रव्यदानेऽपि न संकुचितो बभूव । प्राप्तवयस्को भूत्वा यदा नरेन्द्रनाथस्तान् निष्कर्मशीलान् पालयितुं परिपोषयितुं चापत्तिमकरो- त्तदा विश्वनाथदत्तेन प्रोक्तम् – “जीवनं कियदुःखमयमितोदानीं किं त्वं ज्ञास्यसि ? यदाऽवधारयिष्यसि तदा तेभ्यो दुःखेभ्यः क्षणिकमुक्ति- मधिगन्तुं ये मादकं वस्तु निषेवन्ते, तानपि त्वं सकरुणया दृशा द्रक्ष्यसि ।” , ७ विश्वनाथदत्तः संगोतानुरागवान् कविताप्रियश्च समभूत् । तदोय- विराव्यक्तित्वान्तराले हृदयमेकं स्नेहप्रवणं बभूव । तस्य स्नेहात् करुणायाञ्च कोऽपि वञ्चितो नाऽभवत् ।' प्रयोजनातिरिक्तानपि शकटी- घोटकादीन्, कर्मकरान्, कर्मचारिणञ्चारक्षत् । तेनानेके निर्धना मानवास्तस्य गेहे प्रतिपालिता बभूवुः । मातुर्भुवनेश्वरीदेव्या अपि चरित्रमनुपममासीत् । असौ निष्ठावती, धर्मप्राणा हिन्दुनारीणामादर्शभूता औदार्यादिगुणविभूषिता महिलासु रत्नसमाना, अत एव तु रत्नगर्भाऽभूत् । हिन्दुसमाजे स्त्रियः शक्ति- मूलम् । तासां व्यक्तित्वचरित्रप्रभावो विशेषरूपतः सन्तानेष्वापतति । ,
- स्वामिना विवेकानन्देन परवतिनि काले प्रोक्तम्– “स्वीयज्ञानविकासा-
याऽहं स्वमातुरधमणोँऽस्मि ।” अन्यदप्य भिहितम् – “येन स्वमातुः पूजा