पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः चित्रं मानसपटे उदितं बभूव । आशया तथा आनन्देन च तस्य चित्तमपूर्यत ।...

१५४ इतः परं माण्डवी । सः नारायणसरोवर-आशापुरी-कोटोघरप्रभृति- तीर्थस्थानानां दर्शनमकरोत् । तत्पश्चात् पालितानास्थाने अनेकजैन- मन्दिरदर्शनेन धर्मभूमेः भारतस्य महिम्ना स विह्वलोऽजायत । पालि- तानायाः शत्रुञ्जयपर्वतशिखरस्य प्राकृतिकं सौन्दर्य तं मोदपरवशं चकार । तदनन्तरं बडोदां गत्वा खाण्डोआ-इत्यत्र समाजगाम | भ्रमणं कुर्वन् ईश्वरेच्छयेव वकील-श्रीहरिदासचट्टोपाध्यायस्य गृहसम्मुखे उपस्थितोऽभवत् । हरिदासः न्यायालयात् परावृत्य अपश्यत् यत् तस्य गृहसमक्षम् एकः संन्यासी तिष्ठति । साधारणवार्तया सोऽजानात् यत् अयं साधारणसंन्यासी नास्ति । आकृष्टो भूत्वा स निजगृहे वासार्थ तस्य सम्मुखे साग्रहप्रार्थनामकरोत् । विवेकानन्दः खाण्डोआ स्थाने प्रायः त्रीन् सप्ताहानवसत् । समस्त- नगरविशिष्टव्यक्तीनां समावेश हरिदासबाब्रूगृहेऽजायत । तस्य मुखाद् उद्दीपनामयं धर्मप्रसंगं, शास्त्रस्य सरलां व्याख्यां तथा मधुरभजन- संगीतं श्रुत्वा सर्वेऽपि सविशेष आनन्दिता अभूवन् । शिकागोधमे सभावात श्रुत्वा खाण्डोआयामेव तस्य मनसि सम्मेलने योगदानस्य इच्छा समजायत । हरिदासबाबूप्रश्नस्य उत्तरे तेन कथितम् – “यदि कोऽपि यातायातव्ययं दद्यात् तदा मम गमने काऽप्यापत्तिर्नास्ति । " खाण्डोआनिवासिनाम् आदरं आतिथ्यं तथा सहृदयतां चोपेक्ष्य स मुम्बापुरीं जगाम । स रामेश्वरपथे अग्रेसरो भूत्वा प्राचलत् । हरिदास - महाशयः निजभ्रातृनाम्ना परिचयपत्रं दत्वा बम्बई- 'टिकेट'मेकं क्रीत्वा दत्तवान् । १८६१ ई० जुलाईमासस्यान्तिमे भागे विवेकानन्दः मुम्बापुरीं प्राप । हरिदासबाबूभ्रातुः सहायतया प्रसिद्धबेरिस्टर-छविलदासभवने निवास-