१५३ युगाचार्य-विवेकानन्दः सत्स्वपि हिन्दुजातिः कथं मृता न जाता ? तादृश्यपि धारणाऽव- स्थापनीया यत् विश्वसभ्यताया भाण्डागाराय किमपि दातुमेव भारतं साम्प्रतमपि जीवति । मनुष्याणां नवजीवनेन संजीवनम्, तथा पशुश्रेणोकानां मनुष्याणां देवमानवेषु परिणमनम् अनयो योर्महतोः जीवनव्रतयोः उद्यापनं कर्तुम् अस्माकमियं देशमाता सम्राज्ञीव धोरपदक्षेपेण अग्रगामिनी सती चलति । स्वर्गेऽथवा मर्त्यलोके तादृशी काऽपि शक्तिर्नास्ति या तद्गतिं रोद्धु शक्नुयात् । मानवजातेः आध्यात्मिकभावेन प्रबोधनमेव भारतस्य मूलं जीवन-व्रतं तस्यास्तित्वस्य परमा प्रतिष्ठा तथा चरम- सार्थकता अस्ति । यथार्थतः यावत्पर्यन्तं भारतस्याव्यात्मिकदृष्टि- भङ्गी स्थिरा तिष्ठति तथा यावत्पर्यन्तं भारत निवासिनः निजप्राण- स्वरूपं धर्म स्वीकुर्वन्तः स्थास्यन्ति तावत्पर्यन्तं भारतीय जातेर्विनाशो न भविष्यति ।..." तस्मिन् समये स निजहृदये एकस्याः प्रचण्डविस्फोटकशक्तेः अनु- भवमकरोत् । श्रीरामकृष्णदेवस्य भविष्यवाण्याः स्मरणं तस्या- जायत ।* पोरबन्दरात् द्वारका | श्रीकृष्णस्य लीलास्थलभूता द्वारकाऽद्य समुद्रा- भ्यन्तरे अस्ति । शंकराचार्य प्रतिष्ठितस्य शारदा मठस्ये कस्मिन् निर्जने प्रकोष्ठे आश्रयं गृहोत्वा स्वामी अधिकांशसमये ध्यानस्थ अतिष्ठत् । एकस्मिन् दिने समुद्रतीरे उपविश्य ध्यानं कुर्वतः तस्य भाविभारतस्योज्ज्वलं -
- पोरबन्दरे तस्य गुरुभ्रातुः परमान्तरङ्गस्य स्वामित्रिगुणातीतस्य सहसा
समागमे जाते विवेकानन्दोऽवादीत् – “भ्रातः ! शारद ! श्रीठाकुरः मत्सम्बन्धे यदपि वाक्यमूचे इयद्दिनानन्तरं सम्प्रति तस्य सत्यताया उपलब्धिः भवति ।... एवं प्रतिभाति ममान्तः या शक्तिरस्ति तथा समस्त संसारम् अस्तव्यस्तं कर्तुं शक्नुयाम् ।”