पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ जूनागढस्य प्रधानामात्यो हरिदासविहारिदासः महत्या श्रद्धया सह स्वामिनं निजगृहमानयत् । स्वामिना सह वार्तालापं कृत्वा प्रधाना- मात्यः तस्य व्यक्तित्वं प्रति एतावदधिकं श्रद्धासम्पन्नः आकृष्टश्चाभवत्, यत् सः प्रतिदिवसम् उच्चान् राजकर्मचारिणः सभापण्डितान् तथा अन्य विशिष्टलोकांश्च स्वगृहे आहूय स्वामिनः धर्मालोचनस्य प्रबन्ध- मकरोत् । स्त्रामिनः मुखात् वैदिकधर्मस्य मौलिकी व्याख्यां श्रुत्वा सर्वे मुग्धा अभूवन् । स्वाम्यपि तस्मिन्नवसरे जनसाधारणस्य उन्नतो एव भारतस्य भविष्यं पूर्णतया निर्भरम्, इति सर्वेषां हृदयेषु गम्भीर- मंकितमकरोत् ।... तदनन्तरं स्वामी हिन्दु मुस्लिम बौद्धानां तथा जैनानाञ्च सम्प्र- दायस्य महापवित्रतीर्थं गिरिनारपर्वतं समागमत् । प्राचीनं स्थापत्य- शिल्पं तथा धर्मभावातिरिक्ता तस्य स्थानस्य प्राकृतिकी शोभा एवं गाम्भीर्य तस्य मनसि विशिष्टं प्रभावं अंकितमकुर्वन् । स ॠपेदत्ता- त्रेयस्य पदचिह्नं द्रष्टु सर्वोच्चशिखरं ( ३३०० फुट ) आरूढः । आनन्देन शान्त्या च तस्यान्तरम् आपूर्यत । भारतस्यातीतगौरवस्मरणं तदीयचित्तमालोडितमकार्पात् । स एकस्यां निर्जनगुहायां कतिचन -

  • तस्यान्तरे भारतस्य भविष्यविषये या कल्पना आसीत् तस्याः सम्बन्धे

सोऽब्रवीत् – “...किन्तु भावि भारतं प्राचीनभारतात् उन्नतं भविष्यति । यस्मिन् दिने रामकृष्णः जन्म लेभे तस्माद् दिवसादेव वर्तमाने भारते सत्य- युगस्याविर्भावोऽभवत्। यूयमेव तस्य सत्ययुगस्योद्बोधनं करिष्यथ एवं विश्वास मनसि निधाय कार्यक्षेत्रेऽवतीर्णा भवत ।”