पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः प्रायशः वर्षत्रयं यावत् स्वामिनो भारतभ्रमणस्य दिनानि अनेक घटनापरिपूर्णान्यभूवन् । प्रत्येकं घटनायाश्च विशेष तात्पर्य्यमण्यभूत् । स्थानाभावाद् तासु कासांचन घटनानां विवरणं दत्वैवास्माभि- स्तृप्तैः भूयते । १३५ अलवराज्जयपुरम् । मार्गे पाण्डुपोलस्थहनुमतो विख्यात-मन्दिरस्य, टाहलास्थ-नीलकण्ठमहादेवस्य प्राचीनमन्दिरादीनां दर्शनं कुर्वन्न सौ जयपुरमाजगाम । सर्वत्रैव तदुपदेशश्रवणाय अनेकेषां मानवानां समावेशोऽजायत । नीलकण्ठस्य मन्दिरं तत्पाइर्ववर्ति-स्थानं च तस्य समधिकं प्रीतिकरमभूत् । समुद्रमन्थनोद्भूतहालाहलपानेन महा- देवस्य नाम नीलकण्ठो बभूव । तस्याः पौराणिकघटनाया व्याख्या- प्रसंगेन तेन प्रोक्तमासीत् – “समुद्रो मायारूपः । रूपरसगंधविशिष्ट विचित्रं जगदिदं माया रचितमेव । अत्र इन्द्रिय सुखजनकान्यनेकानि समुत्पत्स्यत एव, . भोग्यवस्तूनि सन्ति । भोगपरिणामे तेभ्यो हालाहलं हालाहलं विषमिदमात्मज्ञानस्य परिपन्थि । भूमानन्दे निमग्नः देवा- दिदेवः शंकरः संसारसमुद्रसमुत्पन्नं हालाहलं स्वयं पीत्वा प्रजाभ्योऽ- मृतदानमकरोत् ।...” कारिज्ञानार्जनमेव नैजं जीवनं चरित्रं च संघटितं कर्तुं शक्नुयाः । शिक्षाशब्देन यथार्थ कार्य- मयाऽवधार्य्यते ।... केवलं पुस्तकस्थविद्यया कार्य न सेत्स्यति । अस्माकं प्रयोजनं तयैव शिक्षया वर्तते, यां द्वारीकृत्य चरित्रघटनं सम्भवेतू, मनोचलं वर्धेत, बुद्धिर्विकासमियात्, मनुष्याश्च स्वावलम्बिनो भवितु- मर्हेयुः। पाश्चात्यविज्ञानेन सह वेदान्तस्य समन्वयः कर्त्तव्यः – यस्य ब्रह्मचर्य- श्रद्धात्मविश्वासादयो मूलमन्त्रा भविष्यन्ति।*```’’ - 1:00:1