पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ · स्वामी महोदयो निजान् षट् गुरुसोदरान ( ब्रह्मानन्दम, सारदा- नन्दम्, तुरीयानन्दम्, अद्वैतानन्दम् अखण्डानन्दम् कृपानन्दम् च ) गृहीत्वा श्रेष्ठिन उद्याने न्यवसत् । स्थानीया अनेके विशिष्टपुरुषा धर्मालोचनामाकर्णयितुं प्रतिदिनं तस्य सन्निधाने समायाताः । तदानीं काले तस्याभ्यन्तरे एकस्या विपुलाध्यात्मिक शक्तेर्विकाशमवलोक्य तस्य गुरुभ्रातरो विस्मिताः बभूवुः । सा शक्तिर्निर्गमनमार्गमन्वेष्टुमि- वैच्छत् । ." ध्यानभंगस्यावकाशे गुरुभ्रातृभिः सह "मृच्छकटिक”–“अभि ज्ञानशाकुन्तल". “कुमारसम्भव"-"मेघदूतादि"-- संस्कृतग्रंथा- नामालोचनामकरोत् पुराणपाठश्चापि प्राचलत् । स्थानीयवाचना- लयाध्यक्षेण अखण्डानन्दस्य परिचयो जातः स च ग्रन्थागारातू स्वामिनः कृते अनेकानि पुस्तकानि दत्तवान् । तदानीं काले स्वामिनो हृदये ज्ञान-स्पृह। एताबद् वर्धिता ययासौ पूर्णरूपेण पपाठ । स्वामिनः अखण्डानन्दस्य हस्ते प्रसिद्धस्य अँग्रेज लेखकस्य सरजॉन- लावकस्य ग्रन्थं विलोक्य नितरां प्रसन्नोऽसाबपृच्छत् "पुस्तकमिदं त्वया कुतो लब्धम् ?” "पुस्तकालयात् आनीतवानस्मि ।” “““साधु कृतम्" इत्युक्त्वा तेन पुस्तकं हस्ते गृहीतम् । द्वितीयदिबसे तत्पुस्तकं प्रत्यर्प्य तेन कथितम् – “इदं प्रत्यर्प्य लावकस्य द्वितीयं पुस्तकं यदि भवेत् तदा आनेतव्यम् ।”