पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः स्वामिनो विवेकानन्दस्य हृदये तदानीं तोत्रं वैराग्यमासीत् । स चापि स्वस्याभ्यन्तरे असीमाह्वानमाकर्णयत् । परमसौ सातिशयं धैर्यमवलम्व्यानुकूलसमयं प्रतीक्षमाणस्तस्थौ । श्रीठाकुरस्यान्तिममादेशं स्मृत्वा स तदानीमेव बराहनगरमठं परित्यज्य न गन्तुमशक्नोत् । गुरुभ्रातॄन् संघबद्धान् विधातुं तेषां जीवने च पूर्णताविधानदायित्वं तेन स्वयमङ्गीकृतमासीत् । केवलं साधनं भजनमेव नहि, अतीन्द्रिय- तत्त्वानुभूत्या साकं श्रीरामकृष्णस्याध्यात्मिक-भावधारायाः प्रेमवाण्याश्च सामञ्जस्यमपि गुरुभ्रातृनसौ समबोधयत् । तुलनात्मकभावेन स सांख्य-वेदान्त-न्याय-योगादिषड्दर्शनानां धर्मशास्त्र विज्ञानेतिहाससमाज- विज्ञानादीनां च शिक्षणमदात् । ज्ञानवृक्षस्य सर्वप्रकारशाखा प्रशाखा- परिचयफलास्वादपूर्वकं सर्वानेव आचार्यरूपेण संघटितानकरोत् । ९३ प्रायः सर्वेऽपि संन्यासिनो मठं परित्यज्य भ्रमणाय निर्गताः । केवलं स्वामिना रामकृष्णानन्देन कदापि नैतत्कृतम् । स चासीन्मठस्य 'स्थिर- केन्द्रस्वरूप:' श्रीरामकृष्णस्य विश्वासी सेवकश्च । श्रीठाकुरस्य सेवा- पूजादि कुर्वन् स बराहनगरमठे निवसन्नासीत् । तदीयैकनिष्ठ सेवादर्शाः शतशो हृदयेषु अनुप्रेरणामाजागरितामकार्षुः । स हि श्रीठाकुरं केन्द्रीकृत्य श्रीठाकुरस्य सेवापूजादिकार्यं परमसाधनं परमार्थं च मन्यमान आश्रमं विहाय न कुत्राप्यगच्छत् ।... - एकदा काशीपुरोद्याने श्रीरामकृष्णदेवेन भावावेशेन श्रीसारदादेवी प्रोक्ता – “अयि भोः ! युष्माभिचिन्ता न कार्या, काले ( स्वीयं शरीरं दर्शयित्वा ) एतस्य गृहे गृहे पूजा भविष्यति ।” दक्षिणेश्वरे नौबत- गृहस्य निम्नभागे, यत्र गृहे श्रीसारदादेवी न्यवसत् तत्र विविधदेव- देवी चित्रैः साकं श्रीरामकृष्णस्यापि चित्रं संरक्षितम् । श्रीसारदादेवी तद्पूजयत् । एकदा श्रीठाकुरो भावाविष्टो नौबतवेश्मन्युपस्थाय स्वीयं तत् चित्रं पत्रपुष्पैः पूजितवान् ।