पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः तदीयशतांशस्यैकांशोऽपि शिष्यरूपपरिचयप्रदानस्य ९२ नास्माभिः समनुष्टितः । धिगस्मान् | तदीय- योग्यता सम्प्रत्यपि न समुपार्जिता । वयं कीदृशा अयोग्याः स्म:- एतादृश्यश्चिन्ताः सदैव तेषां मनांसि अस्थिराण्यकार्षुः । नवीनेनोद्यमेन नूतनं संकल्पमादाय समधिके साधने भजने चैते न्यमज्जन् । वराहनगरमठजीवनं श्रीरामकृष्णसंघस्येतिहासे एक: समुज्ज्वलः अध्यायः । तत्रत्यास्त्यागतपस्याऽपरिग्रहाः श्रीरामकृष्णस्य त्यागिसंघाय युगशतस्य स्थायित्वं प्रायच्छन् । ईश्वरदर्शनस्य वासना प्रत्येकहृदये दावाग्निरिव सर्वक्षणं प्रजज्वाल । तेन च संसारस्य निखिलाश्चिन्ता वासनाश्च समूलमदह्यन्त | नरेन्द्रादयः प्रायोपवेशनेन देहं परित्यक्त- मुद्यता बभूवुः । भोजनादीनां नासीत् कोऽपि प्रबन्धः । तदर्थं काचिच्चेष्टा नाभूत् प्रतिदिनं पर्याप्तभोजनं नालभ्यत । प्रसंगक्रमानन्तरं स्वामी विवेका नन्दस्तेपामानन्दमयदिवसानां विषये जगाद – “बराहनगरे एतादृशो दिवसा बहवो व्यत्यगुः येषु भोजनार्थं न किमप्यासीत् । भक्तं यदि प्राप्तं तदा लवणं नास्ति । बहूनि दिनानि सलवणभक्तं प्राचलत् । परन्तु न कस्यापि तत्र दृष्टिरासीत् | जपध्यानप्रबलप्रवाहे वयमवहाम । कदा कदापि अरवीनामककन्द विशेषपत्राणि क्वाथयित्वा तैः साकं लवण- भक्तानि खादितानि । अहो ! कीदृशस्ते दिवसाः ! तां कठोरतामवलोक्य भूता अपि पलायन्ते स्म, का कथा मानवानाम् ?" बराहनगरस्य तपस्यया कृच्छ्रसाधनेन च तृप्तिं नाधिगच्छन्तः कतिचिन्नवीनाः संन्यासिनः परिव्राजकरूपेण तीर्थपर्यटनाय तपःसाधनाय च निरगच्छन् । सर्वावस्थासु सर्वत्र विषये श्रीभगवत उपरि निर्भर- त्वमेव परिव्राजकजीवनस्योद्देश्यम् । एतेन भगवति विश्वासो नितरां यते ।