पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
यादवाभ्युदये


प्रतिरूपकमव्ययम् ।' इति शाकटायनः । तत 'कुगतिप्रादयः।' इति समासः । अतो नेद ब्रूनो लटि रूपमिति न स्मशब्दापेक्षा ॥ ३७ ॥

विदितं भवतां देवा विश्वरूपेण विष्णुना ।
महीयान् धर्मशीलेषु भारो यत्तनिवेशितः ॥ ३८ ॥

विदितमिति । हे देवाः । भवतां विदित भवद्भिरवगम्यते तत् । विश्वरूपेण विश्वविग्रहेण । विष्णुना। महीयान् भारः पर्वतादिभारे- भ्योऽतिशयेन महान् महीयान् भारः । धर्मशीलेषु धर्मस्वभावेषु धार्मि- केषु । निवेशिन इति यत् , तत् भवतां विदितमिति पूर्वेण सम्बन्धः। यत्प- दस्योत्तरवाक्यगतत्वात् पूर्ववाक्य तत्पदाप्रयोगः । यत्तदित्यन तच्छ- ब्दस्तु न यत्पदप्रतिनिर्देशरूपः । किन्तु · गोभिर्विप्रैश्च वेदैश्च सतीभिस्स- त्यवादिभिः । दातृभिर्धर्मशीलैश्च सप्तभिर्धार्यते मही।' इत्यादिप्रसिद्धि- परामर्शी । यत्पदसन्निहितस्य तच्छब्दस्यानुवादकोटिनिवेशेन प्रसिद्धिपरा- मर्शकत्वनियमात् । तदुक्त काव्यप्रकाशिकायाम्। 'यच्छब्दस्य निकटे स्थितः तच्छब्दः प्रसिद्धि परामर्शयति' इति । विदितमित्यत्र ‘मतिबु द्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तः । ‘क्तस्य च वर्तमाने ।' इति तद्योगेन भवतामिति षष्ठी। द्विवचनविभज्योपपदे तरबीयसुनौ ।' इति महच्छब्दादीयसुन्प्रत्ययः । यद्यप्यत्र विभज्यमुपपदं नोपात्तम् । तथापि बुद्धिस्थ प्रतियोगिनमपेक्ष्यातिशयविवक्षायां प्रत्ययः । 'बौद्धप्र. तियोग्यपेक्षायामप्यातिशायिनिकाः' इति वामनोक्तः ॥ ३८ ॥

अधर्मघ्नैनिरधुना धर्मसेतुविभेदकैः ।
असङ्ख्यैरद्भुतैस्तुङ्गैः क्रम्ये राक्षसपर्वतैः॥ ३९ ॥

अधर्मेति । अधुना इदानीम् । अधर्मनिनः अधर्माधीनः तत्प्रेरितैः।