पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७
प्रथमः सर्गः।


कयाचिदशरीरिण्या वाचा व्यवसितायतिः।
देवकीं वसुदेवं च कंसः कारामयोजयत् ॥ ३५ ॥

कयाचिदिति । अशरीरिण्या शरिरहितया । कयाचित् — यामेनां वहसे मूढ सह भा रथे स्थिताम् । अस्यास्तवाष्टमो गर्भः प्राणानपहरि- ध्यति ।' इत्येवंरूपया। वाचा । व्यवसितायतिः व्यवसितागामिकालः नि- श्चितभविष्यवृत्तान्त इति यावत् । 'आयतिःस्यादीर्घतायां प्रभावागामि- कालयोः।' इति रत्नमाला । एवंभूतः, कसः । देवकी अस्याः पति वसुदेव च । कारां बन्धनागारम् । अयोजयत् अगमयत् । युजेर्गत्यर्थविवक्षायां गति बुद्धीत्यादिना द्विकर्मकत्वम् ॥ ३५ ॥

स कालातिबलः कंसः कालनेमिरनेहसा ।
सर्वदैतेयसत्वानां समाहार इवोदितः ॥ ३६ ॥

स इति । स कसः । कालादन्तकादतिबलः । अनेहसा कालेन । 'कालो दिष्टोऽप्यनेहापि' इत्यमरः । सर्वदैतेयसवानां अखिलदैत्यपराक- माणाम्। समाहारः समुच्चय इव । उदितः कालनेमिः खलु । कालने- म्याख्यः प्राग्भगवता हतो महासुर एव कंसरूपेण निखिलासुरबलसमाहार इवाविर्भूत इत्यर्थः । अतोऽस्मिन्नीदृशी स्वसृबन्धनादिनृशसतेति भावः ॥

एतस्मिन्नन्तरे देवी मेरुमध्यमुपेयुषः।
प्रजापतिमुखान् देवान् प्राह सागरमेखला ॥ ३७ ॥

एतस्मिमिति । एतस्मिन्नन्तरे अवसरे । सागरमेखला समुद्ररशना । देवी धरित्री । मेरुमध्यम् । उपयुषः प्राप्तवतः। प्रजापतिमुखान् चतुर्मुख- प्रभृतीन् । देवान् । प्राह वक्ष्यमाणमुवाच । 'आहेत्युवाचार्थे विभक्ति-