पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२३
तृतीयः सर्गः।

महितयोगविदां मतिभिः समं श्रुतिभिरप्यनुपप्लवनीतिभिः ॥ ८ ॥ प्रसदनमिति । नभसि मासि श्रावणे मासे । ‘पद्दन्नोमास्-' इत्यादिना मासशब्दस्य मासित्यादेश. । नदीभिः । शरदागमसभव शरत्समयागमप्रभवम् । प्रसदन प्रसादो नैर्मल्यम् । उपाददे उपात्तम् । कर्मणि लिट् । शरत्ममय इव प्रावृष्यपि नद्यः प्रसन्ना बभूवुरित्यर्थ । कि च महित उत्कृष्ट योग विदन्ताति तेपा महितयोगविदाम् । मतिभिः बुद्धिभिः । समम् । अनुपप्लवनीतिभिः अनुरसृतोपक्रमादिन्यायाभिः । श्रुतिभिरपि । प्रसदनमुपाददे । प्रसदन प्रकृष्टगदन शुभाश्रयः । श्रुतिपक्षे प्रसादो झटित्यर्थसमर्पणक्षमत्वम् । तथा च भगवत्यवतीर्णे स एव योगिध्यानस्य आप्तमालम्बनमाात् । भुवि भगवदवतारमरिम्ना विदुषां मन:प्रसादाद्वेदानामुपक्रमादिन्यायाविरोधेन झटिति यथावदर्थम्फुरणमायासीदित्यर्थः । अत्र नदीना ध्रुतीनां च एकक्रियान्वयात् तुल्ययोगिता लङ्कारः । सहोक्तिबलान्प्रसदन ध्रुतिषु मनिषु नदीषु च भिन्नार्थ जातमिति सहोक्त्यलङ्कारश्च ॥ ८ ॥ निखिलचेतनमानसनिःसृताः कलुषताः समुदत्य किल क्षणात् । विविशुरम्भ इव स्वयमापगाः जलनिधेरिव भोजपतेर्मनः ॥ ९॥ निखिलेति । निखिलानां चेतनानां मानसेभ्या निःसृताः । कलुषता. आविलताः । आपगाः किल सरित इवेति किलशब्दो भिन्नक्रमः ।