पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२२
यादवाभ्युदये

मधुरिपोरवतारमहोत्सवे मुमुदिरे मथुरापुरदेवताः। यदभिगन्तरि भक्तजने वरं ददुरशेषमतन्द्रितचेतसः ॥६॥ मधुरिपोरिति। मधुरिपोः श्रीकृष्णस्य । अवतार एव महोत्सवे । मथुरापुरस्य देवताः। मुमुदिरे मोदमभजन्। यद्यथा। अभिगन्तरि इष्टार्थमुपसर्पणकतरि । भक्तजने । अशेष वर समस्तमीप्सितम् । अतन्द्रित असञ्जाततन्द्र बहुवारप्रार्थनऽपि अनुत्पत्रवैस्य चेतो यासां तथाभूताः सत्यः । ददुः । तथा मुमुदिर इात मोदाधिक्योक्ति । अधिकप्रमोदा हि प्रभवः तद्दशायामवसरझैः समाश्रितः प्रार्थित बह्वपि प्रयच्छन्ति ॥ ६ ॥ अवदधानधियो मुनयस्तदा यदनधीतमधीतबदअसा । निगमजातमशेषमवेक्ष्यत निरविशन्निव मुक्तिमयी दशाम् ।। ७ ।। अवधानेति । तदा । अवदधाना अवधानवती धीर्येषां ते । मुनयः। यत् निगमजातम् । अनधीतम्। तदशेषम् । अजसा शीघ्रम् । अधीत. वत् अवेक्ष्य अधीतमिव मनसि स्पष्ट प्रकाशमानमवेक्ष्य । मुक्तिमयी मुक्तिरूपाम् । दशां अवस्थाम् । निरविशनिव अन्वभवनिव। तथा असुख्यन्निवेत्यर्थः । उत्प्रेक्षालङ्कारः॥ ७ ॥ प्रसदनं शरदागमसंभवं नभसि मासि नदीभिरुपाददे।