पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२०
यादवाभ्युदये

नृत्यन्ति स्म। किन्नरैः । किमपि अनिर्वचनीयं अतिमधुरम् । गीतम् । अगीयत । अमराणां दुन्दुभिः भेरी । श्रुतिसुखैः श्रोत्रसुखहेतुभिः । 'सुखहेतौ सुख सुखम्' इति शब्दार्णवः । स्वनैः । आनकदुन्दुभिं वसुदेवम् । समतोषयत सतोषयते स्म । तुष्यतीति तोषः । पचाद्यचि 'तत्करोति' इति णिचि ‘णिचश्च' इत्यात्मनेपदम् । 'तुष तुष्टौ' इति धातोरेव हेतुमण्णिजङ्गीकारे तु 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति परस्मैपदं स्यात् ॥ दशसु तत्र दिशास्वशरीरिणी जय जयेनि बभूव सरस्वती । अजितमेकमगोचरयत्स्वयं स्वरसत्तिरसावसुरान्तकम् ॥३॥ दशस्विति। तत्र वसुदेवस्थाने । दशसु दिशासु प्रागादयोऽष्टावूर्ध्वमधश्चेति दशसु दिक्षु । जय जयेति । अशरीरिणी । सरस्वती वाणी । बभूव । असौ जय जयेति सरस्वती । असुराणां अन्तक हन्तारम् । अ. जित श्रीकृष्ण एकम् । 'विष्णावप्यजिताव्यक्तौ' इत्यमरः । स्वरसा स्वारस्यवती वृत्तिर्यस्याः सा तथाभूता सती। स्वय अगोचरयत् स्वय. मेव विषयीचकार । द्विषामसुराणां जेतरि स्वयं केनाप्यजिते भगवति अभिधायाः परिपोषलाभात्स्वरसतः प्रवर्तते । अन्यत्र तु स्वार्थसकोचात्पा करणोपपदादिनानूद्यमानः कथचित्प्रवर्तत इति भावः । जय जयेति समतौ द्विरुक्तिः ॥ ३ ॥ अनतिवेलसमीरणचोदितैः शिशिरशीकरशीभरिताम्बरः।