पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

तृतीयः सर्गः। अथ जगन्ति वभूवुरनाविला न्यतिमिरा हरितः प्रचकाशिरे । अमजदेव निशा दिवसश्रियं जननभाजिनि देवदिवाकरे ॥ १ ॥ अथेति । सर्गान्तरारम्भार्थोऽथशब्द । देवे कृष्ण एव दिवाकरे । जननभाजिनि प्रादुर्भावभाजिनि यति । जर्गान्त । अनाविलानि प्रसनचित्तानि । बभूवु । हरितो दिश.। अतिमिरा. अन्धकाररहिताः । प्रचकाशिरे आवभासिरे । निशा । दिवमश्रिय दिनाभाम् । अभजदेव प्राप्तैव । तथा प्रकाशभूयस्त्वमभूदिति भावः । दिवाकरेऽभ्युदिते लोकाना निद्रापगमाचेतःप्रसादो दिशामन्धकारापगमा निशाया दिवसपरिणामश्च भवतीति रूपकसङ्कीर्णः क्रियायोगपद्यरूप. समुच्चयालङ्कारः । द्रतविलम्बितं सर्गवृत्तम् । द्रुतविलम्बितमाह नभौ भरौ' इति लक्षणात् ॥ १॥ ननृतुरप्सरसो दिवि नन्दिताः किमपि गीतमगीयत किन्नरैः। श्रुतिसुखैः समतोषयत स्वन रमरदुन्दुभिरानकदुन्दुभिम् ॥ २॥ ननूतुरिति । अप्सरसः । दिवि। नन्दिताः प्रीतिमत्यः सत्य । ननृतः