पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११५
द्वितीयः सर्गः।

________________


सञ्चरद्भिर्गन्धर्वादिभिर्बहुशः कृतदिव्यगानमित्यर्थः । सतां साधुजनानाम् । उपस्थापितसत्त्वलास्यं सन्निधापितसत्त्वगुणनर्तनम् । सङ्गीतमाङ्गल्य वाद्यगीतनृत्तत्रिकरूप मङ्गल्यम् । अभूत् । 'गीतं नृत्तं च वाद्यं च त्रयं सङ्गीतमुच्यते।' इति सङ्गीतरत्नाकरे ॥ ९३ ॥ प्रदीपितैः कंसगृहेषु दीपै स्तापैश्च भावेषु तपोधनानाम् । अलभ्यत क्षिप्रमलब्धभङ्गै रहेतुनिर्वाणदशानुभूतिः ।। ९४ ॥ प्रदीपितैरिति । कंमगृहेषु । प्रदीपितैः प्रज्वलितैः । दीपैः । तपोधनानाम् । भावेषु हृदयेषु । प्रदीपितैः असुरादिपीडयोद्दीपितैः । तापैः सतापैश्च । अलब्धभङ्गः अप्राप्तनिर्वापणादिनाशनव्यापारैरेव । क्षिप्रम् । अहेतुनिर्वाणस्य निर्हेतुकविनष्टस्य दशा नाशः तदनुभूतिः तत्प्राप्तिः । अलभ्यत लब्धा । अत्र दीपतापानां नाशावाप्तिलक्षणैकक्रियान्वयात् तुल्ययोगितालङ्कारः। प्रसिद्धविनाशकाभावेऽपि कंसस्य तपोधनानां च भगवदवतारानन्तरभावि शुभाशुभसूचकं दैवं प्रसिद्धं कारण हृदि निधाय विनाशोत्पत्तिर्निबद्धति विभावनालङ्कारश्च ॥ ९४ ॥ अजः स्वजन्माईतयानुमेने यामष्टमी यादवभावमिच्छन् । द्वितीयया भावितयोगनिद्रा साभूत्तदानीं प्रथमा तिथीनाम् ॥ ९५ ॥ अजइति । अजो विष्णुः । 'अजा विष्णुहरच्छागाः" इति वैजयन्ती।