पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११३
द्वितीयः सर्गः।

तदा निशीथः स सतां प्रसत्यै ससारमुक्त्योरिव सन्धिरासीत् ॥ ९० ॥ भागेनेति । तदा तस्मिन्भगवदवतारसमये । तमोमयेन अन्धकारप्रचुरेण । पूर्वेण भागेन पूर्वरात्रेण । प्रकाशपूर्णेन चन्द्रालोकपूर्णेन । पश्चिमेन भागेन अपररात्रेण च, उपलक्षितः। सः निशीथः । ससारमुक्त्योः । सन्धिः अन्तरालकाल इव । सतां प्रसत्त्यै आसीत् भगवदवतारसमयत्वात्सज्जनानां हृदयप्रसादायाभवत् । ससारमुक्त्योः सन्धिरपि तमोगुणप्रचुरेण तमोगुणविकारेण वा पूर्वभागेन ससारकालन प्रकाशपूर्णेन आविर्भूतस्वरूपज्ञानपरिपूर्णेन पश्चिमभागेन मुक्तिकालेन चोपलक्षितः सतां ब्रह्मविदां हृदय,प्रसादाय भवतीत्युपमा। 'अस्ति ब्रह्मेति चेद्वेद सन्तमेन ततो विदुः' इति श्रुतेः ब्रह्मविदः सच्छब्दाभिधेयाः ॥ ९० ॥ पागेव जातेन सितेन धान्ना मध्योपलक्ष्येण च माधवेन । प्रकामपुण्या वसुदवपल्या सम्पन्नसाम्येव निशा बभासे ॥ ९१॥ प्रागिति । प्रकामपुण्या अत्यर्थपुण्यकरी । प्रागेव । जातेन । सितेन धाना चन्द्रेण । मध्ये निशीथे आविर्भावदशायामुपलक्ष्येण । माधवेन कृष्णेन च, उपलक्षिता । निशा । वसुदेवपल्या । सम्पन्नसाम्या लन्धसादृश्येव । बभासे बभौ । सा च देवकी। प्रकामं पुण्या पुण्यवती । प्रागेव रोहिल्या जातेन । सितेन धवलेन । धाम्ना बलभद्रेण । मध्ये वल उपलक्ष्येण माधवेन चोपलक्षिता चेति रात्र्यास्तत्सादृश्यम् । अत्रापि THE KUPPUSWAMI SASTRI RESEARCH INSTITUTF MADRAS.A