पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८१
द्वितीयः सर्गः।
करग्रहीतृसभावनारूपहेतूत्प्रेक्षा । सवितरि कूपादिनिपतत्पुरुषताप्रतीतेस्समासोक्तिः। करशब्दश्लेषमूलकातिशयो. क्तिश्चेति सङ्करः ॥ ४० ॥

स्फुरत्यभाकेसरमर्कबिन्ध ममज सिन्धौ मकरन्दताम्रम् । सन्ध्याकुमार्या गगनाम्बुरशः क्रीडाहृतं क्षिप्तमिवारविन्दम् ॥ ४१ ।। स्फुरदिति । स्फुरन्त. भ्राजमाना. प्रभाकेसरा केसरसदृशप्रभा यस्येत्युपमितरामासगर्भो बहुव्रीहिः । अरविन्दपक्षे स्फुरन्त. प्रभासदृशा. केसरा यस्येति मध्यमपदलोपिममासगर्भः । मकरन्दः पुष्परस इव ताम्र लोहितम् । अरविन्दपक्षे मकरन्देन ताम्रम् । अर्कबिम्बम् । सन्ध्यैव कुमारी तया । गगनमेवाम्बुगशिः तस्मात् । क्रीडया आहृतम् । क्षिप्त अरविन्दमिव । सिन्धौ। ममजा मनमभवत् । अत्राकबिम्ब अरविन्दतादात्म्यसभावनारूप: स्वरूपात्प्रेक्षालकारः । स च स्फुरत्प्रभाकेसर मकरन्दताम्रमित्युपमाभ्या सन्ध्याकुमार्या गगानाम्वुराताति रूपकाभ्यां चास्थापित इति सङ्करः ॥ ४५ ॥ फणामणिप्रेक्ष्यखरांशुविम्बः सन्ध्यासुपर्णीमवलोक्य भीतः । तापाधिको वासरपन्नगेन्द्रः प्रायेण पातालबिलं विवेश ॥ ४२ ॥ फणेति । फणामणिवत् प्रेक्ष्य खरांशो. उष्णकिरणस्य बिम्ब