पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८०
यादवाभ्युदये

प्रसक्तपातश्वरमाम्बुराशी रक्तोरुबिम्बो रविरस्तशैलात् । दिनान्तनागेन दृढमणुनं मनश्शिलाशृङ्गमिवावभासे ॥ ३९ ।। प्रसक्तेति । चरमाम्बुराशौ पश्चिमसमुद्र। प्रसक्तपातः प्रारब्धपतनः । रक्तोरुबिम्बः अस्तमयप्रत्यासत्त्या अरुणविपुलमण्डल: । रविः । दिनान्त एव नागो गजस्तेन । अस्तशैलात् चरमाद्रेः । 'अस्तस्तु चरमक्ष्माभृत्' इत्यमरः । दृढप्रणुन्न नितान्त यत्नेन निरस्तम् । मनश्शिलाशृङ्ग गैरिकशिखरमिव । आबभासे । अत्र सूर्ये मनश्शिलाशृङ्गतादात्म्यसम्भावनारूपा स्वरूपोत्प्रेक्षा। सा च दिनान्तनागेनति रूपकोत्थापितेति सङ्करः॥ ३९ ॥ निमजता वारिनिधौ सवित्रा को नाम जायेत करग्रहीता। तदेति संभावनयैव नूनं दूरादुदक्षेपि कराग्रमुच्चैः ॥ ४० ॥ निमजतेति । वारिनिधौ । निमन्जता आरब्धासमाप्तनिमज्जनेन । सवित्रा का । को नाम करग्रहीता जायेत, अमज्जनाय हस्तग्रहीता स्यादिति सभावनयैव । तदा तस्मिन् काले । करस्य किरणस्यैव हस्तस्याग्रम् । दूरात् उदक्षेपि दूरं क्षिप्तं । 'दूरान्तिकार्थेभ्यो द्वितीया च' इति प्रातिपदिकार्थमात्रे पञ्चमी । को नामेति नामशब्दस्तदीयसंभावनाद्योतकः । 'नाम प्राकाश्यसभाव्यकोधोपगमकुत्सने' इत्यमरः । अत्र