प्रतिदिवसं शक्यनुसारेण यथोक्तविधिना पात्रे गवादिकं स्वकुटुम्बाविरोधेन
दातव्यम् । निमित्तेषु चन्द्रोपरागादिषु विशेषतोऽधिकं यत्रेन
याचितेनापि श्रद्धापूतमनसूयापवित्रीकृतं शक्या दातव्यम् । याचितेनापि
दातव्यमिति वदता यथोक्तं पात्रं स्वयमेव गत्वा आहूय वा यद्दानं तन्महा
फलमुक्तम् । तथाच स्मरणम्-‘गत्वा यद्दीयते दानं तदनन्तफलं स्मृतम् । ।
सहस्रगुणमाहूय याचिते तु तदर्धकम्' इति ॥ २०३ ॥
गवादिकं देयमित्युक्तं तत्र गोदाने विशेषमाह---
हेमशृङ्गी शैफै रौप्यैः सुशीला वस्त्रसंयुता ।
सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ।। २०४ ।।
हेममये शृङ्गे यस्याः सा हेमशङ्गी । शफैः खुरैः रैप्यैः राजतैः संयुता वस्त्रेण
च संयुता कांस्यपात्रसहिता बहुक्षीरै सुशीला गौर्यथाशक्तिदक्षिणासहिता
दातव्या ॥ २०४ ॥
गोदानफलमाह--
दातास्याः खर्गमाझेोति वत्सरात्रोमसंमितान् ।
कपिला चेत्तारयति भूयश्वासप्तमं कुलम् ।। २०५ ।।
अस्या गोः रोमसंमितान् रोमसंख्याकान्वत्सरान्स्वर्गमाप्तोति दाता । सा यदे कपिला तदा न केवलं दातारं तारयति किंतु कुलमपि आससमं सप्तमम भिव्याप्य पेित्रादीन्षट् आत्मानं च सप्तमम् । अप्यर्थे भूयःशब्दः ॥ २०५ ॥ उभयतोमुखीदानफलम्--
सवत्सारोमतुल्यानि युगान्युभयतोमुखीम् ।
दातास्याः खर्गमामोति पूर्वेण विधिना ददत् ।। २०६ ।।
सवत्सारोमतुल्यानि वत्सेन सह वर्तत इति सवत्सा तस्या रोमतुल्यानि
वत्सस्य गोश्च यावन्ति रोमाणि तावत्संख्याकानि युगानि कृतत्रेतादीनि उभयतो
मुखीं ददत्स्वर्गमामोत्यनुभवति पूर्वेण विधिना दाता चेत् ॥ २०६ ॥
का पुनरुभयतोमुखी कथं तावत्तद्दानं महाफलमित्यत आह--
यावद्वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते ।
तावदौः पृथिवी ज्ञेया यावद्भर्भ न मुञ्चति ।। २०७ ।।
गर्भान्निर्गच्छतो वत्सस्य द्वौ पादौ मुखं च यावत्कालं योन्यां दृश्यते तावः त्कालं उभयतोमुखमस्या अस्तीत्युभयतोमुखी । यावत्कालं गर्भ न मुञ्चति तावत्सा गौः पृथिवीसमा ज्ञेया । अतः फलातिशयो युक्तः ॥ २०७ ॥
१ खुरै रूप्यैः ख . २ बहुक्षीरा गौर्यथा क. .