पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
दानप्रकरणम् ९]
६३
मिताक्षरासहिता ।

ध्ययनशीलिनः श्रुताध्ययनसंपन्ना उत्कृष्टाः । तेभ्योऽपि क्रियापरा विहितानु ष्ठानशीलाः । तेभ्योऽप्यध्यात्मवित्तमाः वक्ष्यमाणमार्गेण शमदमाद्वियोगेनात्म तत्त्वज्ञाननिरताः श्रेष्ठा इत्यनुषज्यते ॥ १९ ॥ एवं जातिविद्यानुष्ठानतपसां प्रशंसामुखेनैकैकयोगेन पात्रतामभिधायाधुना तेषां समुच्चये संपूर्णपात्रतामाह--

न विद्यया केवलया तपसा वापि पात्रता ।
यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ।। २०० ।।

केवलया विद्यया श्रुताध्ययनसंपत्या नैव संपूर्णपात्रत्वम् । नापि केवलेन तपसा शमदमादिना । अपिशब्दात्केवलेनानुष्ठानेन केवैलया जात्या वा नैव संपूर्णपात्रता । कथं तर्हि । यत्र पुरुषे वृत्तमनुष्ठानं इमे चोभे विद्यातपसी स्त चशब्दाद्राह्मणजातिश्च तदेव मन्वादिभिः संपूर्णपात्रं प्रकीर्तितम् । हि यस्मादतः परमुत्कृष्टं पात्रं नास्ति । अत्र जातिविद्यानुष्ठानतपःसमुच्चयानामुत्तरोत्तरप्राशस्त्येन फलतारतम्य द्रष्टव्यम् ॥ २०० ॥
सत्पात्रे गवादिदानं देयम्--

गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् ।
नापात्रे विदुषा किंचिदात्मनः श्रेय इच्छता ।। २०१ ।।

पूर्वोत्ते पात्रे गवादिकमर्चितं शास्त्रोक्तोदकदानादीतिकर्तव्यतासहितं देयम् । अपात्रे क्षत्रियादौ ब्राह्मणे च पतितादौ विदुषा पात्रविशेषेण फलविशेषं जानता श्रेयः संपूर्णफलमिच्छता किंचिदल्पमपि न दातव्यम् ।. श्रेयोग्रहणादपात्रदा नेऽपि किमपि तामसं फलमस्तीति सूचितम्। यथाह-कृष्णद्वैपायनः–‘अदेश काले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥’ इति । अपात्रे न दातव्यमिति वदता विशिष्टदेशकालद्रव्यसन्निधौ पात्रस्यासन्निधाने द्रव्यस्य वा तदुद्देशेन त्यागं तसै प्रतिश्रवणं वा कृत्वा समर्पयेत् नत्वपात्रे दात व्यमिति सूचितम् । तथा प्रतिश्रुतमपि पश्चात्पातकादिसंयोगे ज्ञाते न देयम् 'प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्' इति निषेधात् ॥ २०१ ॥
अपात्रे दातुर्निषेधमुक्त्वा प्रतिग्रहीतारं प्रत्याह--

विद्यातपोभ्यां हीनेन नतु ग्राह्यः प्रतिग्रहः ।
गृह्णन्प्रदातारमधो नयत्यात्मानमेव च ।। २०२ ।।

विद्यातपोभ्यां हीनेन प्रतिग्रहः सुवर्णादिर्न ग्राह्यः । यस्माद्विद्यादिहीनः प्रति गृह्यन् दातारमात्मानं चाधो नरकं नयति प्रापयतीति ॥ २०२ ॥
गवादि पात्रे दातव्यमित्युक्तं तत्र विशेषमाह--

दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ।
याचितेनापि दातव्यं श्रद्धापूतं खशक्तितः ।। २०३ ।।


१ योगे पात्रतां ग. २ केवलजात्या क. ३ दकपाद्यादीति क. ४ किंचित्तामसं क.