मांसं श्वचण्डालक्रव्यादादिभिर्निपातितं शुचि । आदिग्रहणात्पुल्कसादेरपि ग्रहणम् । निपातितग्रहणं भक्षितस्य निराकरणार्थम् ॥ १९२ ॥
रश्मिरी रजश्छाया गौरवो वसुधानिलः ।
विपुषो मक्षिकाः स्पर्श वत्सः ग्रस्रवने शुचिः ।। १९३ ।।
रश्मयः सूर्यादेः प्रकाशकद्रव्यत्य । अन्निः प्रसिद्धः । रज अजादिसंबन्धव्यनि रेकेण । तत्र –‘श्वकाकोष्ट्रखरोलूकसूकरग्राम्यपक्षिणाम् । अजाविरेणुसंस्पश दायुर्लक्ष्मीश्च हीयते ॥’ इति दोषश्रवणात्तत्स्पर्श संमार्जनादि कार्यम् । छाया वृक्षादेः । गौः । अश्वः । वसुधा भूमिः । अनिलो वायुः । विपुषोऽवश्याय बिन्दवः । मुखजानां वक्ष्यमाणत्वात् । मक्षिकाश्च । एते चण्डालादिस्पृष्टा अपि स्पर्श शुचयः । वत्सः प्रस्रवने ऊधोगतदुग्धापकर्षणे शुचिः । वत्सग्रहणं बाल स्योपलक्षणार्थम्--‘बालैरनुपरिक्रान्तं स्त्रीभिराचरितं च यत् । अविज्ञातं च यत्किंचिन्नित्यं मेध्यमिति स्थिति ॥' इति वचनात् ॥ १९३ ॥
अंजाश्वयोर्मुखं मेध्यं न गोर्न नरजा मलाः ।
पन्थानश्च विशुद्धयन्ति सोमसूर्याशुमारुतैः ।। १९४ ।।
अजाश्वयोर्मुखं मेध्यं । न गोः । न नरजा मला । नरशब्दो लक्षणया देहमभिधत्ते । तजा मला वसादयो मेध्या न भवन्ति । पन्थानो माग श्वचण्डालादिभिः स्पृष्टा अपि रात्रौ सोमांशुभिर्मारुतेन च शुद्धयन्ति । दिवा तु सूर्याशुभिर्मारुतेन च ॥ १९४ ॥
मुखजा विपुषो मेध्यास्तथाचमनबिन्दवः ।
श्मश्रु चास्यगतं दन्तसत्तं त्यक्त्वा ततः शुचिः ।। १९५ ।।
मुखे जाता मुखजाः श्रेष्मविपुषो मेध्याः नोच्छिष्टं कुर्वन्ति अनिपतिताश्च दङ्गे । ‘न मुखविपुष उच्छिष्टं कुर्वन्ति न चेदङ्गे निपतन्ति’ इति गौतमवचनात् । तथाच ये आचमनतोयबिन्दवः पादौ स्पृशन्ति ते मेध्या । ३श्मश्रु चास्यगत मुखप्रविष्टमुच्छिष्टं न करोति । दन्तसक्तं चान्नादिकं स्वयमेव च्युतं त्यक्त्वा शुचिर्भवति । अच्युतं दन्तसमैम् । तथाच गौतमः–‘दन्तश्लिष्टं तु दन्तवदन्यत्र जिह्वाभिमर्शनात्प्राकू च्युतेरियेके च्युतेष्वास्रावद्विद्यान्निगिरैज्ञेव तच्छुचि' इति । निगिरणं पुनरनेन याज्ञवल्क्योक्तन त्यागेन विकल्प्यते । निगिरन्नेवेत्येवकारः 'चर्वणे त्वाचमेन्नित्यं मुक्त्वा ताम्बूलचर्वणम् । ओष्ठौ विलोमकौ स्पृष्टा वासो विपरिधाय च ।' इति विष्णूक्ताचमननिषेधार्थः । ताम्बूलग्रहणं फलाद्युपलक्ष णार्थम् । यथाह शातातपः–‘ताम्बूले च फले चैव भुक्त स्नेहावशिष्टके । दन्तलझस्य संस्पर्श नोच्छिष्टो भवति द्विज ॥’ इतेि ॥ १९५ ॥
१ अजाश्धं मुखतो मेध्यं ग. २ दन्तेभ्यः पतितं त्यजति गिलति वा एतावता शुद्यति विना आचमनं इति ग. पु. विशेषः. ३ निर्गिरत्रेव क. निगरत्रेव ख.