पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

सोदराः भ्रातृभ्यः पृथगुपादानमजामिभगिनीग्रास्यर्थम् । एतैर्मात्रादिभिः सह। वाकलहं परित्यज्य सर्वान्प्राजापत्यादीन् लोकान्प्रामीति ॥ १५७ ॥ १५८ ॥

पञ्च पिण्डाननुदृत्य न स्रायात्परचारिषु ।
स्रायान्नदीदेवखातहृदप्रस्रवणेषु च ।। १५९ ।।

परवारिषु परसंबन्धिषु सर्वसत्वोद्देशेनात्यत्तेषु तडागादिषु पञ्च पिण्डाननुद्धत्य न स्रायात् । अनेनात्मीयोत्सृष्टाभ्यनुज्ञातेषु पिण्डोद्धारमन्र्तरापि स्नानमभ्यनुज्ञा तम् । नद्यादिषु कथं तहत्याह-स्रायान्नदीति । साक्षात्परम्परया वा समुद्रगा स्रवन्त्यो नद्यः । देवखार्त देवनिर्मितं पुष्करादि । उदकप्रवाहाभिघातकृतसजलो महानिन्नप्रदेशो हृदः । पर्वताद्युचप्रदेशात्प्रसृतमुदकं प्रस्रवणम् । एतेषु पञ्चपेि ण्डानुद्धरणेनैव स्रायात् । एतञ्च नित्यखानविषयं सति संभवे मनुः (४॥२०३) नदीषु देवखातेपु तडागेषु सरःसु च । स्रानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥ इति नित्यग्रहणात् । शेोचार्थे तु यथासंभवं परवारिपु पञ्च पिण्डानुद्धरणेऽपि सर्वस्य न निषेधः ।। १५९ ।।

परशय्यासनोद्यानगृहयानानि वर्जयेत् ।
अदत्तान्यग्हिीनस्य नान्नमद्यादनापदि ।। १६० ।।

शय्या कशिपुः । आसनं पीठादि । उद्यानमाम्रादिवनम् । गृहं प्रसिद्धम् । यानं रथादि । परसंबन्धीन्येतान्यदत्तान्यननुज्ञातानि वर्जयेत् नोपभुञ्जीत । अभोज्यान्नान्याह-अग्निहीनस्येति । अन्निहीनस्य श्रौतस्मार्ताश्यधिकाररहितस्य शूद्रस्य प्रतिलोमजस्य च अधिकारवतोऽप्यग्रिहितस्यान्नमनापदि न भुञ्जीत प्रतिगृह्णीयाच । तस्मात्प्रशस्तानां स्वकर्मणा शुद्धजातीनां ब्राह्मणो भुञ्जीत प्रति गृह्णीयाञ्च' इति गौतमवचनात् ॥ १६० ॥

कदर्यबद्धचौराणां कुीबरङ्गावतारिणाम् ।
वैणाभिशस्तवाधुष्यगणिकागणदीक्षिणाम्. ।। १६१ ।।

कदर्यो लुब्धः-‘आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् । लोभाद्यः पितरौ २टत्यान्स कदर्य इति स्मृतः ॥’ इत्युक्तः । बद्धो निगडादिना वाचा संनिरुद्धश्च । चौरो ब्राह्मणसुवर्णव्यतिरिक्तपरस्वापहारी । कीबो नपुंसकः । रङ्गावतारी नटचा रणमलादिः । वेणुच्छेदजीवी वैणः । अभिशस्तः पतनीयैः कर्मभिर्युक्तः । वार्धप्यो निषिद्धवृद्धर्युपजीवी । गणिका पण्यस्त्री । गणदाक्षा बहुयाजकः । एतेषामक्षं नाश्रीयादित्यनुवर्तते ॥ १६१ ॥

चिकित्सकातुरकुद्धपुंश्चलीमत्तविद्विषाम् ।
कूरोग्रपतितत्रालयदाम्भिकोच्छिष्टभोजिनाम् ।। १६२ ।।

चिकित्सको भिषग्वृत्युपजीवी । आतुरो महारोगोपसृष्टः –'वातव्याध्यश्मरी-


१ मन्तरेणापि क. २ वृत्त्युपजीवी क.