पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

र्थम् । यथाह वसिष्ठः–‘स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् । यज्ञो पवीते द्वे यष्टिः सोदकश्च कमण्डलु ॥' इति । अत्रच दाक्षायणीति सामान्याभि धानेऽपि कुण्डलधारणमेव कार्यम् ।–“वैष्णवीं धारयेद्यष्टिं सोदकं च कमंण्डलुम्। यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥’ इति (४॥३६) मनुस्मरणात् । तथा देवं देवताच, मृदं तीर्थादुद्धतां, गां, ब्राह्मणं, वनस्पतींश्चाश्वत्थादीन्प्रद क्षिणं कुर्यात् । एतान्दक्षिणतः कृत्वा प्रव्रजेदित्यर्थः । एवं चतुष्पथादीनपि मृदं गां देवतां वेिशं घृतं मधु वतुष्पथम् । प्रदक्षिणानि कुचत प्रज्ञातांश्च वनस्पतीन् ॥' इति (४॥३९) मनुस्मरणात् ॥ १३३ ॥

न तु मेहेन्नदीछायावत्र्मगोष्ठाम्बुभस्मसु ।
न प्रत्ययर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ।। १३४ ।।

नद्यादिषु न मेहेत् न मूत्रपुरीषोत्सर्ग कुर्यात् । एवं श्मशानादावपि । यथाह शङ्कः–‘न गोमयकृष्टोऽसशाद्वलचितिश्मशानवल्मीकवत्र्मखलगोष्टबिलपर्वतपुलि नेषु मेहेत् भूताधारत्वात्’ इति । तथाझ्यादीन्प्रति अझ्यादीनामभिमुखं न मेहेत् । नाप्येतान्पश्यन् । यथाह गौतम –“न वाय्वग्निविप्रादित्यापोदेवतागाश्च प्रतिपश्यन्वा मूत्रपुरीषामेध्यान्युदयेद्वैतान्प्रति पादौ प्रसारयेत्’इति । एतद्देशव्य तिरेकेण भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रैपुरीषे कुर्यादिति । यथाह वसिष्ठ परिचेष्टितशिरा भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रपुरीषे कुर्यात्’ इति ॥ १३४ ।।

नेक्षेतार्क न नग्रां स्त्रीं न च संसृष्टमैथुनाम् ।
न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥ १३५ ।।

नैवार्कमीक्षेतेति यद्यप्यत्र सामान्येनोक्तं तथाप्युदयास्तमयराहुग्रस्तोदकप्रति बिम्बमध्याह्नवर्तिन एवादित्यस्यावेक्षणं निषिध्यते न सर्वदा । यथोक्तं मनुना (४३७)–‘नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥' इति । उपभोगादन्यत्र नझाँ स्त्रियं नेक्षेत । ‘न नग्नां स्त्रियमी क्षेतान्यत्र मैथुनात्' इत्याश्वलायनः । संसृष्टमैथुनां कृतोपभोगाम् । उपभोगान्ते ऽनझामपि नेक्षेत । चकाराद्भोजनादिकमाचरन्तीम् । तथाच मनुः (४॥४३)- 'नाश्रीयाद्भार्यया सार्ध नैनामीक्षेत चाश्वतीम् । क्षुवतीं नृम्भमाणां च न चासीनां यथासुखम् ॥ नाअवयन्तीं स्वके नेत्रे न चाभ्यत्कामनावृताम् । न पश्येत्प्रसवन्तीं च श्रेयस्कामो द्विजोत्तमः ।।' इति । मूत्रपुरीषे च न पश्येत् । तथा अशुचि सन् राहुतारकाश्च न पश्येत् । चकारादुदके स्वप्रतिबिम्बं न पश्येत्–“न चोदके निरीक्षेत स्वं रूपमिति धारणा' इति वचनात् ॥ १३५ ॥

अयं मे वज्र इत्येवं सर्वे मन्त्रमुदीरयेत् ।
वर्षत्यप्रावृतो गच्छेत्स्वपेत्प्रत्यक्शिरा न च ।। १३६ ॥


१ एवं देवं क. २ प्रदक्षिणतः ख. ३ प्रत्यकनिो क. ४ श्मशानवल्मीक क. ५ नैता देवताः प्रति ख. ६ मेहनं कार्य क. ग