पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
स्नातकधर्मप्रकरणम् ६ ]
४१
मिताक्षरासहिता ।

मेिथयाविनीतश्च बकवृत्तिरुदाहृतः ॥’ इति । प्रतिषिद्धसेविनो विकर्मस्थाः । बिडालो मार्जारस्तस्य त्रतं स्वभावो यस्यासैौ बैडालत्रतिक । तस्य लक्षणमाह मनुः (४॥१९५)-‘धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः । बैडालत्र तिको ज्ञेयो हिंखः सर्वाभिसंधिक ॥’ इति । शठः सर्वत्र वक्रः । एतैः संसर्गनि षेधादेव स्वयमेवंभूतो न भवेदिति गम्यते ॥ १३० ॥

शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः ।
न भार्यादर्शनेऽश्रीयात्रैकवासा न संस्थितः ।। १३१ ।।

किंच । शुछे धैरते अम्बरे वाससी धरतीति शुक्लाम्बरधरः । केशाश्च श्मश्रूणि च नखाश्च केशश्मश्रुनखं नीचं निकृत्तं केशश्मश्रुनखं यस्यारौ तथोक्तः । शुचेि रन्तर्बहिश्च स्रानानुलेपनधूपस्रगादिभिः सुगन्धी च भवेत् । यथाह गौतम स्रातको नित्यं शुचिः सुगन्धिः स्रानशीलः' इति । सुगन्धित्वविधानादेव निर्गन्धमालयस्य निषेधः । तथाच गोभिल –“नागन्धां स्रजं धारयेदन्यत्र हिरण्यरत्रस्रजः’ इति । सदा स्रातक एवंभूतो भवेत् । एतच्च सति संभवे । न जीर्णमलवद्वासा भवेच्च विभवे म्पति’ इनि स्मरणात् । नच भार्यादर्शने तस्यां पुरतोऽवस्थितायामश्रीयात् अवीर्यवदपत्योत्पत्तिभयात् । तथाच श्रुतेि ‘जायाया अन्ते नाश्ीयादवीर्यवदपत्यं भवति’ इति । अतस्तया सह भोजनं दूर देव निरस्तम् । न चैकवासाः न संस्थितः उत्थितः अश्लीयादिति संबध्यते ॥१३१ ॥

न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् ।
नाहितं नानृतं चैव न स्तेनः स्यान्न वाधुषी ।। १३२ ॥

किंच । कदाचिदपि संशयं प्राणविपत्तिसंशयावहं कर्म न प्रपद्येत न कुर्यात् । यथा व्याघ्रचौराद्युपहतदेशाक्रमणादि । अकस्मान्निष्कारणं कंचिदपि पुरुषं स्त्रियं वा अप्रियमुद्वेगकरं वाक्यं न वदेत् । न चाहितं नानृतं वा प्रियमपि । चकाराद् श्रीलमसभ्यं बीभत्सकरै चाकस्मान्न वदेदिति संबध्यते । एतच्च परिहासादिव्य तिरेकेण ।-‘गुरुणापि समं हास्यं कर्तव्यं कुटेिलं वेिना’ इति स्मरणात् । नच स्तेनः अन्यदीयस्यादत्तस्य ग्रहीता न स्यात् । न वार्युषी स्यात् । प्रतिषिद्धबृद्युप जीवी वाधुषी ॥ १३२ ॥

दाक्षायणी ब्रह्मसूत्री वेणुमान्सकमण्डलुः ।
कुर्यात्प्रदक्षिणं देवमृोविप्रवनस्पतीन् ॥ १३३ ॥

किंच दाक्षायणं सुवर्ण तैदस्यास्तीति दाक्षायणी । ब्रह्मसूत्रं यज्ञोपवीतं तत् स्यास्तीति ब्रह्मसूत्री । वैणवयष्टिमान् । कमण्डलुमान् । स्यादिति सर्वत्र संबन्ध नीयम् । अत्रच ब्रह्मचारिप्रकरणोक्तस्यापि यज्ञोपवीतस्य पुनर्वचनं द्वितीयप्रास्य


१ परुपमप्रियं ख. २ तद्वान्, तद्धारणात् क.