एषामसंभवे कुर्यादिष्टिं वैश्वानरी द्विजः ।
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ।। १२६ ।।
एषां सोमप्रभृतीनां पूर्वोक्तानां नित्यानां कथंचिदसंभवे तत्काले वैश्वानरी मिष्टिं कुर्यात् । किंच योऽयं हीनकल्प उक्तः सति द्रव्येऽसौ न कर्तव्यः । यच्च फलप्रदं काम्यं तद्धीनकल्पं न कुर्वीत न कर्तव्यमेव ॥ १२६ ॥
चण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात् ।
यज्ञार्थ लब्धमददद्भासः काकोऽपि वा भवेत् ।। १२७ ।।
यज्ञाथै शूद्रधनयाचनेन जन्मान्तरे चण्डालो जायते । यः पुनर्यज्ञार्थ याचितं नै सर्व प्रयच्छति न त्यजति स भासः काकोऽपि वा वर्षशतं भववेत् । यथाह मनुः (११॥२५)–‘यज्ञार्थमर्थ भिक्षित्वा यः सर्व न प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः ।' इति । भासः शकुन्तः । काक प्रसिद्धः ॥ १२७ ॥
कुशूलकुम्भीधान्यो वा त्र्याहेिकोऽश्वस्तनोऽपि वा ।
कुशूलं कोष्टकं, कुम्भी उष्ट्रिका, कुशशूलं च कुम्भी च कुशूलकुम्भ्यौ ताभ्यां
परिमितं धान्यं यस्य स तथोक्तः कुशूलधान्यः स्यात्, कुम्भीधान्यो वा । तत्र
स्वकुटुम्बपोषणे द्वादशाहमात्रपर्यासं धान्यं यस्यास्ति स कुशूलधान्यः । कुम्भी
धान्यस्तु स्वकुटुम्बपोषणे षडहमात्रपर्याप्तधान्यः । त्र्यहःपर्यासं धान्यमस्यास्तीति
त्र्याहिकः । श्वोभवं धान्यमस्यास्तीति श्धस्तनः । न विद्यते श्वस्तनं यस्य सोऽश्वस्तनः ॥
कुशूलधान्यादिसंचयोपायमाह-
जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः ।। १२८ ।।
शाल्यौदिनिपतितपरित्यक्तवलरीग्रहणं शिलम् । एकैकस्य परित्यक्तस्य कणस्यो पादानमुञ्छः, शिलं चोञ्छश्च शिलोञ्छं तेन शिलेनोञ्छेन वा । कुशूलधान्या दिश्चतुर्विधो गृहस्थो जीवेत् । एषां कुशूलधान्यादीनां ब्राह्मणानां गृहस्थानां चतुर्णा परः परः पश्चात्पश्चात्पठितः श्रेयान्प्रशस्यतर एतञ्च यद्यपि द्विज कृतस्तथापि ब्राह्मणस्यैव भवितुमर्हति विद्योपशमादियोगात् । तथाच मनुना (४॥२)–‘अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः । या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ।' इति विप्रमेव स्तुत्य मनुः (४॥७)–‘कुशूलधान्यको वा स्यात्कुम्भीधान्यक एव वा' इत्याद्यभिहितत्वात् । एतचानतिसंयैतं याया वरं प्रत्युच्यते न विप्रमात्राभिप्रायेण । तथा सति-“त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्विजः’ इत्यनेनन विरोधः । तथाच गृहस्थानां द्वैविध्यं तत्र तत्रो चकम् । यथाह देवलः–“द्विविधो गृहस्थो यायावरः शालीनश्च । तयोर्याया वरः प्रवरो याजनाध्यापनप्रतिग्रहरिक्थसंचयवर्जनात् । षट्कर्माधिष्ठितः प्रेष्य-
१ न परित्यजति क. २ शाल्यादेर्निपतित. क. ३ ब्राह्मणानां चतुण ख. ४ श्रेयानुत्कृष्ट तमः ख. ५ प्रकृतः प्रकरणप्राप्तः प्राकृतः ख . ६ पुरस्कृत्य क . ७ नतिसंपन्नसंयतं क .