प्रायश्चित्तप्रकरणम ५ 1 मिताक्षरासहिता । ४८७ मनःसंतापनं तीव्रमुद्वहेच्छोकमन्ततः ॥ इति । बहेिरिति ग्रामाद्वहिर्निष्क्रम्य स्त्रियाप्येवमेव व्रतपरिग्रहः कार्यः । केशश्मश्रुलोमनखवपनं तु नास्ति ।–“चान्द्रा णादिष्वेतदेव स्त्रियाः केशवपनवर्जम्’ इति बौधायनस्मरणातू वपनानेिच्छोस्तु हारीतेन विशेष उक्तः–“राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः । केशानां वपनं कृत्वा प्रायश्चित्तं समाचरेत् ॥ केशानां रक्षणार्थ तु द्विगुणं व्रतमाचरेत् । द्विगुणे तु वते चीर्णे दक्षिणा द्विगुणा भवेत् ।।' इति । एतच्च महापातकादिदोषेविशेषाभिप्रायेण द्रष्टव्यम्–‘विद्वद्विप्रनृपस्त्रीणां नेष्यते केश वापनम् । व्रते महापातकिनो गोहन्तुश्चावकीर्णिनः ॥’ इति मनुस्मरणात् । जाबालेनाप्यत्र विशेष उक्त -‘आरम्भे सर्वकृच्छ्ाणां समासौ च विशेषतः । औन्नेनैव च शालास्रौ जुहुयाद्याहृतीः पृथक् ॥ श्राद्धं कुर्याद्रतान्ते तु गोहिरण्यादि दुक्षिणा ॥' इति । यमेनाप्यत्र विशेषोऽभिहितः–“पश्चात्तापो निवृत्तिश्च खानं चाङ्गतयोदितम् । नैमित्तिकानां सर्वेषां तथा चैवानुकीर्तनम् ॥’ तथा-‘गात्रा यङ्गशिरोभ्यङ्गौ ताम्बूलमनुलेपनम् । व्रतस्थो वर्जयेत्सर्व यच्चान्यद्धलरागकृत् ॥ इति । एवमादिकर्तव्यताजातं स्मृत्यन्तरादन्वेष्टव्यम् । एवमनेन विधिना व्रतं गृहीत्वावश्यं परिसमापनीयम् । अन्यथा तु प्रत्यवाय । “पूर्व ब्रतं गृहीत्वा तु नाचरेत्काममोहितः । जीवन्भवति चाण्डालो मृतः श्वा चेवैव जायते ॥’ इति छागलेयस्मरणात् । इत्यलं प्रपञ्चेन ॥ ३२५ ॥ इत्थमुक्तविनियोगस्य चान्द्रायणादेः स्वरूपमभिधाय लब्धप्रसङ्गकॉन्तरेऽपि विनियोगमाह अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन तु । मर्मार्थ यश्चरेदेतचन्द्रसैति सलोकताम् ॥ ३२६ ।। आदिश्यत इत्यादिष्टं प्रायश्चित्तं न विद्यते आदिष्टं येषु पापेषु तेषु चान्द्रायः णेन शुद्धिः । चशब्दात्प्राजापत्यादिभिः कृच्छैरैन्दवसहितैस्तन्निरपेक्षेर्वा शुद्धिः । तथाच षट्रत्रिंशन्मतेऽभिहितम्-‘यानि कानि च पापानि गुरोर्गुरुतराणि च । कृच्छ्ातिकृच्छ्चान्द्रेयैः शोध्यन्ते मनुरब्रवीत् ॥' इति त्रयाणां समुच्चयः प्रति पादितः । उशनसा तु द्वयोः समुच्चय उक्त –‘दुरितानां दुरिष्टानां पापानाँ महतामपि । कृच्छू चान्द्रायणं चैव सर्वपापप्रणाशूनम् ॥’ इति । दुरितमुपपात कम् । दुरिटं पातकम् । गौतमेन तु कृच्छातिकृच्छूौ चान्द्रायणमिति सर्वप्राय श्चित्तमिति विसमासकरणेनैन्दवनिरपेक्षता कृच्छूातिकृच्छ्योः सूचिता । चान्द्रा यणस्य निरपेक्षता इतिशब्देन च त्रयाणां समुच्चयः । केवलप्राजापत्यस्य तु निर पेक्षं चतुर्विशतिमतेऽभिहितम्-‘लघुदोषे त्वनादिष्ट प्राजापत्यं समाचरेत्’ १ द्विगुणे व्रत ङ. २ दोषव्यतिरेकेण ङ. ३ आचीर्णे आज्येनैवेति ङ. ४ चान्दैस्त्विति ङ
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५११
दिखावट