पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ४८१ शान्भुक्त्वा तिस्रो रात्रीनश्चीयात्’ इति । एवं नक्तभोजनवेिधावपि । न विद्यते याचितं यस्मिन्भोजने तद्याचितम् । तेन कालविशेषानुपादानाद्दिवा रात्रैौ वा सकृदित्येव । तपोरूपत्वात्कृच्छूाणां द्वितीयभोजने तदनुपपत्ते । अयाचितमिति न केवलं ीयान्नयाचनप्रतिषेधोऽपि तु स्वकीयमपि परिचारकभार्यादिभ्यो न याचेितव्यम् । प्रेषणाध्येषणयोः साधारणत्वाद्याच्ञ्जायाः । अतः स्वगृहेऽपि भृत्य भार्यादयोऽनाज्ञप्ता एव यदि भोजनमुपहरन्ति तर्हि भोक्तव्यं नान्यथा । अमु नैवाभिप्रायेणोत्तं गौतमेन–“अथापरं त्र्यहं न कंचन याचेत' इति । अत्र च ग्राससंख्यानियमः पराशरेण दर्शितः-‘सायं तु द्वादशग्रासाः प्रातः पञ्चदश स्मृताः । चतुर्विशतिरायाच्याः परं निरशनं स्मृतम् ॥’ इति । आपस्तम्बेन त्वन्यथोक्तम्--‘सायं द्वाविंशतिग्रसाः प्रातः षडिंशतिः स्मृताः । चतुर्विंशति रायाच्याः परं निरशनास्रय । कुकुटाण्डप्रमाणास्तु यथा वास्यं विशेत्सुखम् ॥ इति । अनयोश्च कल्पयोः शक्तयपेक्षया विकल्पः । आपस्तम्बेन तु प्राजापत्य प्रायश्चित्तं चतुर्धा विभज्य चतुरः पाद्कृच्छून्कृत्वा वर्णानुरूपेण व्यवस्था दर्शिता–“यहं निरशनं पादः पादश्चायाचितं ञ्यहम्। सायं त्र्यहं तथा पादः पादः प्रातस्तथा व्यहम् ॥ प्रातः पादं चरेच्छूद्रः सायं वैश्ये तु दापयेत् । अयाचितं तु रांज्जन्ये त्रिरात्रं ब्राह्मणे स्मृतम् ॥’ इति । यदा त्वयाचितोपवासात्मकञ्यहद्वया नुष्ठानं तदार्धकृच्छूः । सायंव्यतिरिक्तापरत्र्यहत्रयानुष्ठानं तु पादोनमिति विज्ञेयम् । ‘सायंकल्तर्विनार्ध स्यात्पादोनं नक्तवर्जितम्’ इति तेनैवोक्तत्वात् ॥ अर्धकृच्छूस्य प्रकारान्तरमपि तेनैव दर्शितम्—‘सायं प्रातस्तथैकैकं दिनद्वयमयाचितम्। दिनद्वयै च नाश्रीयात्कृच्छ्ार्ध तद्विधीयता ॥’ इति ॥ ३१८ ॥ यथाकथंचित्रिगुणः प्राजापत्योऽयमुच्यते । अयमेव पादकृच्छूः यथाकथंचिद्दण्डकलितवदावृत्या स्वस्थानविवृद्धया वा, तत्राप्यानुलोम्येन प्रातिलोम्येन वा तथा वक्ष्यमाणजपादित्युक्तं तद्वहितं वा त्रिरभ्यस्तः प्राजापत्योऽभिधीयते । तत्र दण्डकलेितवदावृतिपक्षो वसिष्ठन प्रदर्शित –‘अहः प्रातरहर्नक्तमहरेकमयाचितम् । अहः पराकं तत्रैकमेवं चतुरहौ परौ ॥ अनुग्रहाथै विप्राणां मनुर्धर्मभृतां वरः । बालवृद्धातुरेष्वेवं शिशुकृ च्छूमुवाच ह ॥’ इति । आनुलोम्येन स्वस्थानविवृद्धिपक्षस्तु मनुना । दर्शितः (११॥२११)-“श्यहं प्रातस्यहं सायं ज्यहमद्यादयाचितम् । परं त्र्यहं च नाश्रीयात्प्राजापत्यं चरन्द्विज ॥' इति । प्रातिलोम्यावृत्तिस्तु वसिष्ठन दार्शता-‘प्रातिलोम्यं चरेद्विप्रः कृच् चान्द्रायणोत्तरम्’ इति । जपादिरहित पक्षस्तु-स्रीशूद्रादिविषयेऽङ्गिरसा दर्शित –‘तस्माच्छूद्रं समासाद्य सदा धर्मपथे स्थितम् । प्रायश्चित्तं प्रदातव्यं जपहोमादिवर्जितम् ॥' इति । जपादि युक्तपक्षस्तु पारिशेष्याद्योग्यतया च त्रैवर्णिकविषयः । सच गौतमादिभिर्द शिंतः--‘अथातः कृच्छून्व्याख्यास्यामो हविष्यान्प्रातराशान्भुक्त्षा तिस्रो रात्री