प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ४६१ बलाद्दासीकृता ये तु म्लेच्छचण्डालदस्युभिः । अशुभ कारिताः कर्म गवादि प्राणिहिंसनम् ॥ उच्छिष्टमार्जनं चैव तथोच्छिष्टस्य भोजनम् । खरोष्ट्रविङ्गराहाणा मामिषस्य च भक्षणम् । तत्स्त्रीणां च तथा सङ्गस्ताभिश्च सह भोजनम् । मासो षिते द्विजातौ तु प्राजापत्यं विशोधनम् ॥ चान्द्रायणं त्वाहिताझेः पराकस्त्वथवा भवेत् । चान्द्रायणं पराकं च चरेत्संवत्सरोषितः ॥ संवत्सरोषितः शूद्रो मासार्ध यावकं पिबेत् । मासमात्रोषितः शूद्भः कृच्छूपादेन शुद्धयति ॥ ऊध्र्व संवत्सरा त्कल्प्यं प्रायश्चित्तं द्विजोत्तमै । संवत्सरैस्त्रिभिश्चैव तद्भावं स निगच्छति’ इति ॥ आशौचिपरिगृहीतान्नभोजने तु च्छागलेय आह–‘अज्ञानादुञ्जते विप्राः सूतके मृतके तथा ॥ प्राणायामशतं कृत्वा शुद्धयन्ते शूद्रसूतके ॥ वैश्ये षष्टिर्भवेद्राज्ञि विंशतिब्रह्मणे दश । एकाहं च त्र्यहं पञ्च सप्तरात्रमभोजनम् ॥ ततैः शुद्धिर्भवलेयषां पञ्चगव्यं पिबेत्ततः ॥' इति । ब्राह्मणादिक्रमेणैकाहृत्र्यहा दयो योज्याः । इदमकामविषयम् ॥ कामतस्तु मार्कण्डेय आह–“भुक्त्वा तु ब्राह्मणाशौचे चरेत्सान्तपनं द्विजः । भुक्त्वा तु क्षत्रियाशौचे सप्तकृच्छूो विधी यते ॥ वैश्याशौचे तथा भुक्त्वा महासान्तपनं चरेत् । शूद्रयैव तथा भुक्त्वा त्रिमासान्बतमाचरेत् ॥’ यत्तु शङ्गेनोक्तम्-‘शूद्रस्य सूतके भुक्त्वा षण्मासा न्त्रतमाचरेत् । वैश्यस्य तु तथा भुक्त्वा त्रीन्मासान्बतमाचरेत् । ॥ क्षत्रियस्य तथा भुक्त्वा द्वौ मासौ व्रतमाचरेत् । ब्राह्मणस्य तथाऽशौचे भुक्त्वा मासव्रती भवेत् ॥ ' इति । इदमभ्यासविषयम् । एतच्च प्रायश्चित्तमाशौचानन्तरं वेदितव्यम् । ब्राह्मणादीनामाशैौचे यः सकृदेवान्नमश्चाति तस्य तावदाशौचं यावत्, तेषामा शौचव्यपगमे तु प्रायश्चित्तं कुर्यात्' इति विष्णुस्मरणात् । पुत्राद्यन्नभोजने तु लिखित ‘ आह-भुक्त्वा वायुषकस्याश्वमत्रतस्यासु तस्य च । शूद्रस्य च तथा भुक्त्वा त्रिरात्रं स्याद्भोजनम् ॥' तथा–“परपाकनिवृत्तस्य परपाकरतस्य च । अपचस्य तु भुक्त्वान्न द्विजश्चान्द्रायणं चरेत् ॥’ इति । एतच्चा भ्यासविषयम् ॥ परपाकेन निवृत्तादेर्लक्षणं च तेनैवोक्तम्—‘गृहीत्वाझिं समा ोप्य पञ्चयज्ञान्न निर्वपेत् । परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्तितः ॥ पञ् यज्ञांस्तु यः कृत्वा परान्नादुपजीवति । सततं प्रातरुत्थाय परपाकरतस्तु सः ॥ गृहस्थधर्मवृत्तौ यो ददाति परिवर्जितः । ऋषिभिर्धर्मतत्त्वशैरपचः संप्रकीर्तितः ॥ इति । यत्तु ब्रह्मचार्याद्यन्नभोजने वृद्धयाज्ञवल्क्य आह-‘यतिश्च ब्रह्मचारी च पक्रान्नस्वामिनावुभौ । तयोरझं न भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥’ इति ॥ यञ्च पार्वणश्राद्धाद्यकर्तुरन्नभोजने भरद्वाज आह–“पक्षे वा यदि वा मासे यस्य नाश्चन्ति देवताः ॥ भुक्त्वा दुरात्मनस्तस्य द्विजश्चान्द्रायणं चरेत् ॥' इति तदुभयमप्यभ्यासविषयम् ॥ पूर्वपरिगणितातिरिक्ता ये निषिद्धाचरणशीलास्तदन्न भोजने तु–“निराचारस्य विप्रस्य निषिद्धाचरणस्य च । अत्रं भुक्त्वा द्विजः कुर्या द्दिनमेकमभोजनम् ॥’ इति षटूत्रिंशन्मतोक्तं द्रष्टव्यम् । अत्रैव संवत्सराभ्यासे १ तथा तस्यैव भोजनं ङ. २ अज्ञानाद्भोजने ख. ३ ततः शुचिर्भवेद्विप्रः पञ्चगव्यं.पिबेन्नरः इति ङ. ४ द्विजश्चान्द्रायणं चरेदिति ङ. ५ पञ्चयज्ञान्खयं कृत्वा परान्नमुपजीवति ङ
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८५
दिखावट