सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६० याज्ञवल्क्यस्मृतिः । १ पतितान्नमवेक्षितम् उ [ प्रायश्चित्ताध्यायः समापयेत् ॥’ इति । आमश्राद्धे तु सर्वत्रार्धम्–“आमश्राद्धे तदर्ध तु प्राजापत्यं तु सर्वदा' इति षट्टत्रिंशन्मतेऽभिधानात् । यत्तूशनसोक्तम्—‘दशकृत्वः पिबेचापो गायत्र्या श्राद्धभुग्द्विजः । ततः संध्यामुपासीत शुद्धयेतु तदनन्तरम् ॥ इति तदनुक्तप्रायश्चित्तश्राद्धविषयम् ॥ संस्काराङ्गभूतश्राद्धभोजने तु व्यासेन विशेष उक्तः–“निवृत्तचूडाहोमे तु प्राङ्गणमकरणात्तथा । चरेत्सान्तपनं भुक्त्वा जातकर्मणि चैव हि ॥ अतोऽन्येषु तु भुक्त्वान्न संस्कारेषु द्विजोत्तमः । नियोगादुपवासेन शुद्धयते निन्द्यभोजने ॥’ इति ॥ सीमन्तोन्नयनादिष पन धौम्यो विशेषमाह-‘ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा । जातश्राद्धे नवश्राद्धे द्विजश्चान्द्रायणं चरेत् । ॥' इति । अत्र ब्रहौदनाख्यं कर्माधानाङ्गभूतं सोमसाहचर्यात् ॥ अथ परिग्रहाभोज्यभोजने प्रायश्चित्तम्--'यत् त्स्वरूपतोऽनिषिद्धमपि विशिष्ट पुरुषस्वामिकतयाऽभोज्यं भण्यते तत्परिग्रहाशुचेि ।’ तत्र योगीश्वरेण–‘अद त्तान्यमिहीनस्थ नान्नमद्यादनापदि’ इत्यारभ्य सार्धपञ्चभिः श्लोकैरभोज्यान्नाः प्रतिपादिताः । मनुनापि त एव किंचिदधिकाः प्रतिपादिताः । (४॥२०५ २१७)-नाश्रोत्रियतते यज्ञे ग्रामयाजिहुते तथा । स्त्रिया कीबेन च हुते भुञ्जीत ब्राह्मणः कचेित् ॥ मत्तकुद्धातुराणां च न भुञ्जीत कदाचन । गणान्ने गणि काझं च विदुषां च जुगुप्सितम् ॥ तेनगायकयोश्चान्न तक्ष्णो वार्धषिकस्य च । दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भि कस्य च । चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ॥ उग्रान्न सूतिकान्न च पर्यायान्नमनिर्दशम् । अनार्चितं वृथामांसमवीरायाश्च योषित ॥ द्विषदन्न नगर्यन्तं पतितान्नमवक्षुतम् । पिशुनानृतिनोश्चैव क्रतुविक्रयिणस्तथा ॥ शैलष तन्तुवायान्तं कृतान्नस्यान्नमेव च । । कर्मारस्य निषादस्य रङ्गावतरणस्य च ॥ सुवर्ण कर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा । श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च ॥ रजकस्य नृशंसस्य यस्य चोपपतिर्गुहे । मृष्यन्ति ये चोपपतिं स्वीजितानां च सर्वशः ॥ अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ॥' इति । अत्र च पदार्था अभक्ष्य काण्डे श्राद्धकाण्डे चव व्याख्याताः । अत्र प्रायश्चित्तमाह (मनुः ४॥२२२)-

  • भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् । मत्या भुक्त्वा चरेत्कृच्छू रेतो

विण्मूत्रमेव च ॥’ इति । पैठीनसेिनाप्यकामतस्त्रिरात्रमेवोक्तम्—‘कुनखी इयावदन्तः पित्रा विवदमानः स्रीजितः कुष्ठी पिशुनः सोमविक्रयी वाणिजको प्रामयाजकोऽभिशस्तो वृषल्यामभिजितः परिवित्तिः परिविन्दानो दिधिपूपति पुनर्भूपुत्रश्चौरः काण्डपृष्ठः सेवकश्चत्यभोज्यान्ना अपाङ्गेया अश्राद्धार्हः एषां भुक्त्वा दत्त्वा वाऽविज्ञानात्रिरात्रम्’ इति ॥ शङ्गेन त्वेतानेव किंचिदधिकान्प ठित्वा चान्द्रायणमुक्तं तद्भ्यासविषयम् ॥ गौतमेन पुनरुच्छिष्टपुंश्चल्यभिशस्ते त्यादिना अभोज्यान्पठित्वा प्राक्पञ्चनखेभ्यश्छर्दनं घृतप्राशनं चेति प्रायश्चित्तमुक्त तदापद्विषयम् ॥ यस्तु बलात्कारेण भोज्यते तसंयापस्तम्बेन विशेष उक्तः