४५६ याज्ञवल्क्यस्मृति । [ प्रायश्चित्ताध्यायः दूषितम् । कुशोदुम्बरबिल्वाद्ये पनसाम्बुजपत्रकैः । शङ्खपुष्पीसुवचदिकार्थ पीत्वा विशुद्धयति ॥’ इति यद्विष्णुनोत्तं तद्दशक्तविषयं रजकादिस्पृष्टविषयं वा । शूद्वाद्युपहते तु हारीतोक्तं विज्ञेयम्–“शूद्रेणोपहतं भोज्यं कीटैर्वाऽमेध्य सेविभिः । भुञ्जानेषु वा यत्र शूद् उपस्पृशेदनर्हत्वात्स पङ्गौ तु भुञ्जानेषु वा यत्रोत्थायोच्छिष्ट प्रयच्छेदाचामेद्वा कुत्सित्वा वा यत्रान्तं दधुस्तत्र प्रायश्चित्तमहो रात्रम्’ इति । उच्छिष्टपङ्किभोजनेऽप्येतदेव -'यस्तु भुङ्गे द्विजः पङ्कयामुच्छि शृष्टायां कदाचन । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्धयति ॥' इति ऋतस्सर वामकरनिर्मुक्तान्नभोजने तुः समुत्थितस्तु यो भुझे यो भुझे मुक्तभा जने । एवं वैवस्वतः प्राह भुक्त्वा सान्तपनं चरेत् ॥’ इति षट्त्रंशन्मतोत् वेदितैव्यम् ॥ तथा पराशरेणाप्यत्रोक्तम् -“एकपङ्कयुपविष्टानां विप्राणां सह भोजने । यद्येकोऽपि त्यजेत्पात्रं शेषमन्तं न भोजयेत् ॥ मोहाद्रुञ्जीत यस्तत्र पङ्कयामुच्छिष्टभोजन । प्रायश्चित्तं चरेद्विप्रः कृच्छू सान्तपनं तथा ॥' इति ॥ शवादिसंधुक्तकूपाद्युदकपाने तु विष्णुराह –“मृतपञ्चनखात्कूपादत्यन्तोपहता द्वेोदकं पीत्वा ब्राह्मणस्यहमुपवसेत् ब्यहं राजन्य एकाहं वैश्यः शूद्रो नक्तं सर्वे चान्ते पञ्चगव्यं पिबेयुः’ इति । अत्यन्तोपहताद्वेति मूत्रपुरीषादिभिर्वेत्यभिप्रे तम् । यदा तु तत्रैव शवमुच्छूनंतयोद्भिद्रं भवति तदा हारीतो विशेषमाह कुिन्ने भिन्ने शवे तोयं तत्रस्थं यदि चेत्पिबेत् । शुद्धौ चान्द्रायणं कुर्यात्तसकृ च्छूमथापि वा ॥ यदि कश्चित्ततः स्रायात्प्रमादेन द्विजोत्तमः । जपंस्त्रिषवणस्रायी अहोरात्रेण शुद्धयति ॥’ इति । इदं चान्द्रायणं कामतो मानुषशवोपहतकूपजल पानविषयम् । अकामतस्तु षडूत्रम्-*न् िभिन्न शवं चैव कूपस्थं यदि दृश्यते । पयः पिबेत्रिरात्रेण मानुषे द्विगुणं स्मृतम् ॥’ इति देवलस्मरणात् । यदा चाण्डालकूपादिगतं जलं पिबति तदापस्तम्बोत्तं द्रष्टव्यम्–“चाण्डाल कूपभाण्डस्थं नरः कामाज्जलं पिबेत् । प्रायश्चित्तं कथं तत्र वर्णे वर्णे विनिर्दि शेत् ॥ चरेत्सान्तपनं विप्रः प्राजापत्यं च भूमिपः । तदर्ध तु चरेद्वैश्यः शूद्रे पादं विनिर्दिशेत् ॥’ इति । इदं च कामकारविषयम् । अकामतस्तु–“चाण्डाल कूपभाण्डस्थमज्ञानादुदकं पिबेत् । स तु त्र्यहेण शुद्धचेत शूद्रस्त्वेकेन शुछद्यति ॥ इति देवलोत्तं द्रष्टव्यम् ॥ चाण्डालादिसंबद्धाल्पजलाशयेष्वपि कूपवच्छुद्धिः ‘जलाशयेष्वथाल्पेषु स्थावरेषु महीतले । कूपवत्कथिता शुद्धिर्महत्सु तु न दूषणम् ॥' इति विष्णुस्मरणात् । पुष्करिण्यादिषु पुन म्लेच्छादीनां जलं पीत्वा पुष्करिण्यां हृदेऽपि वा । जानुदत्रं शुचि ज्ञेयमधस्तादशुचेि स्मृतम् ॥ तत्तोयं यः पिबेद्विप्रः कामतोऽकामतोऽपि वा । अकामान्नक्तभोजी स्यादहोरात्रं तु कामतः ॥' इत्यापस्तम्बोक्तं द्रष्टव्यम् ॥ रजकादिभाण्डगततोये तु -‘भाण्ड स्थमन्यजानां तु जलं दधि पयः पिबेत् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव झमादतः ॥ ब्रह्मकूचपवासेन द्विजातीनां तु निष्कृतिः ॥ शूद्रस्य चोपवासेन तथा दानेन शक्तितः ॥' इति पराशरोक्तं वेदितव्यम् । कामतस्तु द्विगुणम् १ द्रष्टव्यं ङ. २ संस्पृष्ट ङ. ३ ख. ४.उच्छूनतया भित्रं ख. ५ जायते ख
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८०
दिखावट