पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ ] मिताक्षरासहेिता ४५५ वर्तयेत्, वैश्योच्छिष्टाशने त्रिरात्रोपोषितो ब्राह्मीं सुवर्चलां पिबेत्, शूद्रोच्छिष्टभो जने षड्रात्रमभोजनम्’ इति तदकामविषयम् । तत्राभ्यासे द्वैगुण्यादिकं कल्प्यम् । एतच्च पित्रादिव्यतिरेकेण ।–“पितुज्येष्ठस्य च भ्रातुरुच्छिष्टं भोज्यम्’ इलयापस्त म्बस्मरणात् । यत्तु बृहद्यासवचनम्--'माता वा भगिनी वापि भार्या चान्याश्च योषितः । न ताभिः सह भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥’ इति, तत्सहभोजनविषयम् । उच्छिष्टमात्रभोजने तु ‘शूद्रोच्छिष्टभोजने सप्तरात्रमभो जनं स्त्रीणां च' इत्यापस्तम्बोक्तं द्रष्टव्यम् । यत्वङ्गिरोवचनम्–‘ब्राह्मण्या सह योऽक्षीयादुच्छिष्टं वा कदाचन । तत्र दोषं न मन्यन्ते सर्व एव मनीषिणः ॥ इति, तद्विवाहविषयमापद्विषयं वा । अन्त्योच्छिष्टभोजने तु–“अन्यानां भुक्तशेषं तु भक्षयित्वा द्विजातयः । चान्द्रं कृच्छू तदर्ध च ब्रह्मक्षत्रविशां विधिः ॥ इत्यापस्तम्बोक्तं द्रष्टव्यम् । अत्र चान्द्रं चान्द्रायणम् । अन्त्यावसाय्युच्छिष्ट भोजने तु –“चण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे । चान्द्रायणं चरेद्विप्र क्षत्रः सान्तपनं चरेत् ॥ षड्रात्रै च त्रिरात्रं च वर्णयोरनुपूर्वशः ॥’ इत्यङ्गिरो भिहितं सान्तपनमत्र महासान्तपनं द्रष्टव्यम् । आपदि तु –“आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि । मनस्तापेन शुद्धयेतु दुपदानां शतं जपेत् ॥’ इति पराशरोत्तं वेदितव्यम् । यत्तु बृहच्छातातपेनोक्तम्-“पीतशेषं तु यत्किविद्भाजने मुखनिःसृतम् । अभोज्यं तद्विजानीयादुक्त्वा चान्द्रायणं चरेत् ॥” इति, तदभ्यासविषयम् । निमित्तस्यातिलघुत्वात् ।–“पीतोच्छिष्टं च पानीय पीत्वा तु ब्राह्मणः कचित् । त्रिरात्रं तु व्रतं कुर्याद्वामहस्तेन वा पुनः ॥ इति । एतडुद्धिपूर्वविषयम् । अकामतस्त्वर्ध कल्प्यम् । दीपोच्छिष्ट तु—‘दीपो च्छिष्टं तु यतैलं रात्रौ रथ्याहृतं च यत् । अभ्यङ्गाचैव यच्छिष्टं भुक्त्वा नरक्तन शुद्धयति ॥’ इति षटूत्रिंशन्मतोत्तं द्रष्टव्यम् । अथाशुचिद्रव्यसंस्पृष्टभक्षणे प्रायश्चित्तम् । तत्राह संवर्तः-केशकी टावपन्न च नीलीलाक्षोपघातितम् । स्वाय्वस्थिचर्मसंस्पृष्टं भुक्त्वा तूपवसेदहः ॥ इति । तथाह शातातपः-‘केशकीटावपन्न च रुधिरमांसास्पृश्यस्पृष्टभ्रण न्नावेक्षितपतच्यवलीढश्वसूकरगवाघ्रातशुक्तपर्युषितवृथापक्रदेवान्नहवेिषां भोजने उपवासः पञ्चगव्याशनं च ॥’ इति, एतच्चोभयमपि अकामविषयम्। कामतस्तु “मृद्वारिकुसुमादींश्च फलकन्देश्रुमूलकान् । विण्मूत्रदूषितान्प्राश्य कृच्छ्पादं समाचरेत् ॥ संनिकृष्टऽर्धमेव स्यात्कृच्छुः स्याच्छुचिशोधनम् ॥' इति विष्णूक्तं वेदितव्यम् । अल्पसंसर्गे पादो महासंसर्गेऽर्धकृच्छ् इति व्यवस्था । यत्तु व्यासे नोक्तम्-‘संसर्गदुष्टं यच्चान्न क्रियादुष्टं च कामतः । भुक्त्वा स्वभावदुष्टं च तप्तकृच्छं समाचरेत् ॥’ इति, एतच संसृष्टामेध्यादिरसोपलब्धौ वेदितव्यम् । रजस्वलादिस्पर्श तु शङ्खोक्तम्-‘अमेध्यपतितचण्डालंपुल्कसरजस्वलाव धूतकुणिकुष्ठिकुनखिसंस्पृष्टानि भुक्त्वा कृच्छू चरेत्’ इति । कुणिर्हस्तविकलः । एतत्कामकारविषयम् । अकामतोऽर्धम् । ‘भुक्त्वास्पृश्यैस्तथाशौचिकेशकीटैश्च ड. ३ शुचेिभोजने ङ. ४ पुष्कस ङ १ तजिस्यादुर्मुक्त्वा ङ. २ शुष्कपर्युषित