पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्याय कृतमिति जातानुताप प्रत्यर्पयति त्यजति वा तदापस्तम्बीयं चतुर्थकाल . मिताशनेन त्रिवर्षमवस्थानमाङ्गिरसं वा वज्राख्यं त्रैवार्षिकं द्रष्टव्यम् । नन प्रत्यर्पणे त्यागे वापहारधात्वर्थस्य निष्पन्नत्वात्कथं प्रायश्चित्ताल्पत्वम् । अथा निष्पन्नस्तदा प्रायश्चित्ताभाव एव स्यान्नतु प्रायश्चित्ताल्पत्वम् । मैवम् । अपहार स्योपभोगादिफलपर्यन्तत्वादुपभोगात्प्राङ्गिवृत्तौ च पुष्कलस्यापहारार्थस्याभावा द्युक्तमेव प्रायश्चित्ताल्पत्वं पीतवान्त इवापेयद्रव्ये । नन्वेवं सति चैरहस्ता द्धलादाकृष्य ग्रहणेऽपि तस्योपभोगलक्षणफलाभावात्प्रायश्चित्ताल्पत्वप्रसङ्गः । मैवम् । तस्य त्यागे स्वतःप्रवृत्त्यभावात् फलपर्यन्तेऽपहारे स्वतःप्रवृत्त्वाच । यस्तु रजतताम्रादिसंसृष्टसुवर्णापहारी न तत्रेदं लघुप्रायश्चित्तम् । यतः संस गेऽपि सुवर्णत्वं नापैति आज्यत्वमिव पृषदाज्ये । अतस्तत्र द्वादशवार्षिकमेवेति युक्तम् । अथ लघुप्रायश्चित्तादि द्रव्यान्तरमेवेति लघुप्रायश्चित्तमुच्यते । नै तर्हि तत्र त्रैवार्षिकादिविषयता असुवर्णत्वादेव, किंतूपपातकप्रायश्चित्तमेव । यदप्य परमापस्तम्बोक्तम्—‘स्तेयं कृत्वा सुरां पीत्वा कृच्छं सांवत्सरं चरेत्’ इति तत्सुवर्णपरिमाणादर्वाडझाषाञ्चाधिकपरिमाणद्रव्यविषयम्। यत्तूत्तं सुमन्तुना 'सुवर्णस्तेयी मासं सावित्र्याष्टसहस्रमाज्याहुतीर्जुहुयात् । प्रत्यहं त्रिरात्र मुपवासस्तप्तकृच्छेण च पूतो भवति' इति तत्पूर्वोक्तमाषपरिमाणसुवर्णापहार प्रायश्चित्ते सह विकल्प्यते । यदप्यपरं तेनैवोक्तम्—‘सुवर्णस्तेयी द्वादशरात्रं वायुभक्षः पूतो भवति' इति, तन्मनसापहारे प्रवृत्तस्य स्वतएवोपरतजिहीर्षस्य वेदितव्यम् । अत्रापि स्त्रीबालवृद्धादिष्वप्यर्धमेव प्रायश्चित्तं वेदितव्यम् । यानि च ‘अश्धरखमनुष्यस्त्रीभूधेनुहरणं तथा’ इत्यादिना सुवर्णस्तेयसमत्वेन प्रतिपादितानि तेष्वप्यर्धमेव कार्यम् । यत्पुनश्चतुर्विंशतेिमतवचनम्--'रूप्यं हृत्वा द्विजो मोहाचरेञ्चान्द्रायणत्रतम् । गाचाणदशकादूध्र्वमाशताद्विगुणं चरेत् ॥ आसहखातु त्रिगुणमूध्वं हेमविधिः स्मृतः । सर्वेषां धातुलोहानां पराकं तु समाचरेत् ॥ धान्यानां हरणे कृच्छू तिलानामैन्दवं स्मृतम् ॥ रखानां हरणे विप्रश्चरेचान्द्रा यणत्रतम् ॥” इति, तदपि गद्याणसहस्राधिकरजतहरणे सुवर्णस्तेयसमप्रायश्चित्त प्रतिपादनार्थ न पुनस्तन्निवृत्त्यर्थम् । यदपि रखापहारे चान्द्रायणमुक्तं तदपि गद्याणसहस्राद्धीनमूल्यरलापहारे द्रष्टव्यम्। ऊध्र्व पुनः सुवर्णस्तेयसमम् ॥२५८॥ इति सुवर्णस्तेयप्रायश्चित्तप्रकरणम् । उद्देशक्रमप्रासं गुरुंतल्पिप्रायश्चित्तमाह ततेऽयःशयने सार्धमायस्या योषिता खपेत् । गृहीत्वोत्कृत्य वृषणौ नैत्यां चोत्सृजेत्तनुम् ।। २५९ ।। समा वा गुरुतल्पग’ इति वक्ष्यमाणश्लोकगतं गुरुतल्पगपदमत्र संबध्यते । १ नतनन्तरं ङ. २ लोभात् ड. ३ गद्याणेति । किंचिदधिकशास्रीयमाषत्रयेत्यर्थः । टंकपरिमितेत्यथै इति केचित् । ४ गुरुतल्पगमन डङ