पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता दशगुणं दाप्यस्तस्य च तद्धनम् ॥' इति । यद्वात्यशक्त्या राजा हन्तुमसमर्थस्तदा। वसिष्ठोत्तं द्रष्टव्यम्--'स्तेनः प्रकीर्णकेशो राजानमभियाचेवेत् । ततस्तसै राजौ दुम्बरं शस्त्रं दद्यात्तेनात्मानं प्रमापयेत् । मरणात्पूतो भवतीति विज्ञायते’ इति । औदुम्बरं ताम्रमयम् । यदपि द्वितीयं प्रायश्चित्तं तेनोक्तम्-*निष्कालको गोधू तात्क्तो गोमयाग्निा पादप्रभृत्यात्मानं प्रमापयेन्मरणात्पूतो भवतीति विज्ञा यते’ इति, तदपि गुरुश्रोत्रियागस्थादिविप्रद्रव्यापहारविषयं क्षत्रियाद्यपहर्तृ विषयं वा । तत्र निष्कालक इति निर्गतकेशश्मश्रुलोमाभिधीयते । तथाश्च मेधाद्यनुष्ठानेन वा । तथा प्रचेतसा मरणान्तिकमभिधायोक्तम्-‘इष्टा वाश्च मेधेन गोसवेन वा विशुद्धयेत्’ इति । एतञ्च वेिट्क्षत्रियाद्यपहर्तृविषयम् ॥ २५७ ॥ प्रायश्चित्तान्तरमाह अनिवेद्य नृपे शुद्धयेत्सुरापत्रतमाचरन् । आत्मतुल्यं सुवर्ण वा दद्याद्वा विप्रतुष्टिकृत् ।। २५८ ।। स्वीयं स्तेयं राजन्यनिवेद्य सुरापत्रतं द्वादशवार्षिकमाचरन् शुद्धयेत् । शव शिरोध्वजे तत्कपालधारणनिराकरणार्थ सुरापञ्चतमित्युक्तम् । एतच्चाकामकार विषयम् । (मनुः ११॥८९)-“इयं विशुद्धिरुदिता अमाप्यथाकामतो द्विजम्’ इत्यकामतो विहितस्यैव द्वादशवार्षिकस्यातिदेशात् ॥ नन्वकामतोऽपहार एव न संभवतीति कथं तद्विषयत्वम् । उच्यते । यदा वस्त्रप्रान्तग्रथितं सुवर्णादिक मज्ञानादपहरति रजतादिद्रव्यान्तरबुच्ह्या चा हृत्वा चानन्तरमेवान्यसै दत्तं नाशितं वा न पुनः स्वामिने प्रत्यर्पितं तदा संभवत्येवाकामतोऽपहारः । यस्तु ताम्रादिकस्य रसवेधाद्यापादितसुवर्णरूपस्यापहारो न तत्रेदं प्रायश्चित्तम् । मुख्यजातिसमवायाभावात् । नच मुख्यसादृश्यमात्रेण गौणे मुख्यधर्मा भवन्ति । यद्यपीदृशमेवासुवर्ण सुवर्णभ्रान्त्यापहरति तथापि नेदं प्रायश्चित्तम् । असुवर्णा पहारित्वादेव । नच सृष्टश्चेब्राह्मणवधे अहृत्वापीतिवद्त्रापि दोष इति वाच्यम् असुवर्णे प्रवृत्तत्वादेव • । नह्यब्राह्मणः स्पृष्टश्चदित्यस्य विषयः । यचेदं ‘मनसा पापं ध्यात्वा प्रणवपूर्वकं व्याह्मतीर्मनसा जपेत् । व्याहृल्या प्राणायामं त्रिराच रेत् । प्रवृत्तैौ कृच्छू द्वादशरात्रं चरेदिति, तदपि सम्यगर्थप्रवृत्तिविषयम् । अतो नेदृशमज्ञानतः स्वर्णापहारः प्रायश्चित्तस्य निमित्तं, किंतु रजताद्विबुद्धच्या पूर्वोक्त एव स्वर्णापहारः । अस्मिन्नेव विषये यदापहर्तात्यन्तमहाधनः तदात्म तुलितै सुवर्ण दद्यात् । अथ तावद्धनं नास्ति तपश्चर्यायां चाशक्तस्तदा विप्र तुष्टिकृद्विप्रस्य यावज्जीवं कुटुम्बभरणपर्याप्ततया तुष्टिकरं धनं दद्यात् । यदा तु निर्गुणस्वामेिकं द्रव्यमपहरति तदा “एतदेव ब्रतं स्तेनः पादन्यूनं समाचरेत्’ इति व्यासेनोक्तं नववार्षिकं द्रष्टव्यम् । यदा पुनरीदृशमेव क्षुत्क्षामकुटुम्ब परिरक्षणार्थमपहरति तदा अत्रिप्रतिपादितं षङ्कार्षिकं ‘स्वर्जिदादिं वा क्रतुं कुर्या तीर्थयात्रां वा' ‘षडब्दं वाचरेत्कृच्छू यजेद्वा क्रतुना द्विजः । तीर्थानि वा भ्रम न्विद्वांस्ततः स्तेयाद्विमुच्यते ॥’ इति । यदा त्वपहारसमनन्तरमेव हा कष्टं मया