पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ब्रह्मचारिप्रकरणम् २]
११
मेिताक्षरासहिता ।

अतऊध्र्व पतन्त्येते संर्वधर्मबहिष्कृताः ।
सावित्रीपतिता त्रात्या त्रात्यस्तोमादृते क्रतोः ।। ३८ ।।

आषोडशाद्वर्षात्षोडशवर्ष यावत् आद्वाविंशादाचतुर्वेिशाद्वर्षाद्वैह्मक्षत्रविशां औपचायनिकः उपनयनसंबन्धी परः कालः । नातःपरमुपनयनकालोऽस्ति किंतु अत ऊध्र्व पतन्त्येते सर्वधर्मबहिष्कृताः सर्वधर्मेष्वनधिकारिणो भवन्ति । सावि त्रीपतिताः पतितसावित्रीका भवन्ति । सावित्रीदानयोग्या न भवन्ति । वात्याः संस्कारहीनाश्च त्रैात्यस्तोमात्क्रतोर्विना । कृते तु तमित्रुपनयनाधिकारिणो भवन्ति ॥ ३७ ॥ ३८ ॥ आद्यास्त्रयो द्विजा इत्युक्तं तत्र हेतुमाह-

मातुर्यदग्रे जायन्ते द्वितीयं मौखिबन्धनात्।
ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः ।। ३९ ।।

मातुः सकाशात्प्रथमं जायन्ते, मौञ्जिबन्धनाञ्च द्वितीयं जन्म यस्मात्तस्मादेते ब्राह्मणक्षत्रियवैश्या द्विजा उच्यन्ते ॥ ३९ ॥ वेदग्रहणाध्ययनफलमाह-

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।
वेद एव द्विजातीनां निःश्रेयसकरः परः ॥ ४० ॥

यज्ञानां श्रौतस्मातनां, तपसां कायसंतापरूपाणां चान्द्रायणादीनां, शुभानां च कर्मणां उपनयनादिसंस्काराणां अवबोधकत्वेन वेद एव द्विजातीनां परो निः श्रेयसकैरो नान्यः । वेद एवेति तन्मूलकत्वेन स्मृतेरप्युपलक्षणार्थम् ॥ ४० ॥ ग्रहणाध्ययनफलमुक्त्वेदानीं काम्यब्रह्मयज्ञाध्ययनफलमाह-

मधुना पयसा चैव स देवांस्तर्पयेद्विजः ।
पितृन्मधुघृताभ्यां च ऋचोऽधीते हेि योऽन्वहम् ॥४१॥
यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः ।
प्रीणाति देवानाज्येन मधुना च पिढुंस्तथा ॥ ४२ ॥
स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् ।
सामानि तृतिं कुर्याच पितृणां मधुसर्पिषा ॥ ४३ ॥

योऽन्वहमृचोऽधीते स मधुना पयसा च देवान्पितूंश्च मधुघृताभ्यां तर्प यति । यः पुनः शक्तितोऽन्वहं यजूष्यधीते स घृतामृतैर्देवान्पितृश्श्च मधुघृताभ्यां तैर्पयति । यस्तु सामान्यन्वहमधीते स सोमघृतैर्देवान्पितूंश्च मधुसर्पिभ्र्या प्रीणाति । ऋगादिग्रहणं सामान्येन ऋत्गाद्विमात्रप्राप्यर्थम् ॥ ४१ ॥ ४२ ॥ ४३ ॥


१ यथाकालमसंस्कृताः इति अपरः पाठः २ ब्राह्मणक्षत्रियविशां ख. ३ व्रात्यस्तोमो नाम व्रात्यानां प्रायश्चित्तक्रतुः । तेन चोद्दालकत्रतादिप्रायश्चित्तान्तरमप्युपलक्ष्यते , अपरार्के ४ करो मोक्षकरो ख. ५ काम्यव्रत ख. ६ च यो ख. ७ प्रीणयति क . ८ मत्रप्राप्स्यथै.