पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
[ आचाराध्याय
याज्ञवल्क्यस्मृतिः ।

मधु क्षौद्रं न मद्यम् । तस्य “नित्यं मद्य ब्राह्मणो वर्जयेत्' इति िनपेधात् । मांसं छागादेरपि । अञ्जनं घृतादिना गात्रस्य, कज्जलादिना चाक्ष्णोः । उच्छिष्टमगुरोः । शुक्तं निष्ठुरवाक्यं नन्नरसः, तस्याभक्ष्यप्रकरणे निषेधात् । खियमुपभोगे । प्राणि हिंसनं जीववधः । भास्करस्योद्यास्तमयावलोकनम् । अश्लीलमसत्भाषणम् । परिवादः सदसदूपस्य परदोषस्य ख्यापनम् । आदिशब्दात्स्मृत्यन्तरोत्तं गन्ध माल्यादि गृह्यते । एतानि ब्रह्मचारी वर्जयेत् ॥ ३३ ॥ गुर्वाचवार्यादिलक्षणमाह-

स गुरुर्यः क्रियाः कृत्वा वेदमसै प्रयच्छति ।
उपनीय ददद्वेदमाचार्यः स उदाहृतः ।। ३४ ।।

योऽसौ गर्भाधानाद्या उपनयनपर्यन्ताः क्रिया यथाविधि कृत्वा वेदमसै ब्रह्मचारिणे प्रयच्छति स गुरुः । यः पुनरुपनयनमात्रं कृत्वा वेदं यच्छति स आचार्यः ॥ ३४ ॥ उपाध्यायत्बिग्लक्षणम्-

एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते ।
एते मान्या यथापूर्वमेभ्यो माता गरीयसी ।। ३५ ।।

वेद्यैकदेशं मञ्चब्राह्मणयोरेकं अङ्गानि वा योऽध्यापयति स उपाध्यायः । यः पुनः पाकयज्ञादिकं वृतः करोति स ऋत्विक् । एते च गुर्वाचार्योपाध्याय त्विजो यथापूर्वं यथाक्रमेण मान्याः पूज्याः । एभ्यः सर्वेभ्यो माता गरीयसी पूज्यतमा ॥ ३५ ॥ वेदग्रहणार्थं ब्रह्मचर्यावधिमाह-

प्रतिवेदं ब्रह्मचर्य द्वादशाब्दानि पञ्च वा ।
ग्रहणान्तिकमित्येके केशान्तचैव षोडशे ॥ ३६ ॥

यदा विवाहासंभवे वेदानधीत्य वेदौ वा वेदं वेति प्रवर्तते तदा प्रतिवेदं वेदंवेदं प्रति ब्रह्मचर्ये पूर्वोत्तं द्वादशवर्षाणि कार्यम् । अशक्तौ पञ्च । प्रहणान्ति कमित्येके वर्णयन्ति । केशान्तः पुनगदानाख्यं कर्म गभदारभ्य षोडशे वर्षे ब्राह्मणस्य कार्यम् । एतच द्वादशवार्षिके वेदवते बोद्धव्यं इतरमिन्पक्षे यथासंभवं द्रष्टव्यम्। राजन्यवैश्ययोस्तूपनयनकालवद्वाविंशे चतुर्वेिशे वैा द्रष्टव्यम् ॥ ३६ ॥ उपनयनकालस्य परमावधिमाह-

आषोडशादाद्वाविंशाचतुर्विंशाच वत्सरात् ।
ब्रह्मक्षत्रविशां काल औपनायनिकः परः ।। ३७ ॥


१ न रसादि क. २ भास्करस्य चालोकनं क. ३ गुह्मभाषणं ख. ४ ददाति ख. ५ गावः केशा दीयन्ते खण्ड्यन्ते यूसिन्. ६ वा यथासंभवं ख