सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ याज्ञवल्क्यस्मृतिः । त्वंपदाथभूतस्य तत्त्वमस्यादिवाक्यजन्यात्साक्षात्काररूपादीश्वरज्ञानातू पेरमा विशु द्धिर्मुक्तिलक्षणा । यथैताः शुद्धयः परमपुरुषार्थास्तद्वद्युक्ततरा कालशुद्धिरपीत्येवं प्रशंसार्थ भूतात्मादिविशुद्धयभिधानम् ॥ ३२ ॥ ३३ ॥ ३४ ॥ इत्याशाचप्रकरणम् । [प्रायश्चित्ताध्यायः अथापद्धमप्रकरणम् २ “आपद्यपि च कष्टायां सद्यःशौचं विधीयते’ इत्यापदि मुख्याशौचकल्पानाम जुष्टानासंभवेन सद्यःशौचाद्यनुकल्पमुक्त्वेदानीं तत्प्रसङ्गादापदि *प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा' इत्याद्युक्तयाजनादिमुख्यवृत्यसंभवेन वृत्त्यन्तरमाह-- क्षात्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः । निस्तीर्यतामथात्मानं पावयित्वा न्यसेत्पथि ।। ३५ ।। द्विजो विप्रो बहुकुटुम्बतया स्ववृत्या जीवितुमसमर्थः क्षत्रसंबन्धिना कर्मणा शस्रग्रहणादिना आपदि जीवेत् । तेनापि जीवितुमशकुवन् वैश्यसंबन्धिना कर्मणा वाणिज्यादिना जीवेत् न शूद्ववृत्या । तथाच मनुः (१०॥८२) –‘उभाभ्या मप्यजीवंस्तु कथं स्यादिति चेद्भवेत् । कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीवेि काम् ॥’ इति । तथा आपद्यपि न हीनवर्णेन ब्राह्मी वृत्तिराश्रयणीया किंतु ब्राह्मणेन क्षात्री, क्षत्रियेण वैश्यसंबन्धिनी, वैश्येन च शैौद्रीत्येवं स्वानन्तरहीन वर्णवृत्तिरेव । ‘अजीवन्तः स्वधर्मेणानन्तरां पापीयसीं वृत्तिमातिष्ठेरन्नतु कदाचि ज्यायसीम्’ इति वसिष्ठस्मंरणात् । ज्यायसी च ब्राह्मी वृत्तिः । तथाच स्मृत्य न्तरम्-‘उत्कृष्टं वापकृष्टं वा तयोः कर्म न विद्यते । मध्यमे कर्मणी हित्वा सर्वसाधारणे हेि ते ।।' इति । शूद्रस्योत्कृष्टं ब्राह्म कर्म न विद्यते । तथा ब्राह्मण स्यापकृष्टं शौद्रं कर्म । मध्यमे क्षत्रवैश्यकर्मणी पुनरापद्भतसर्ववर्णसाधारैणे इति । शूद्भश्चापन्तो वैश्यवृत्या शिल्पैर्वा जीवेत् । ‘शूद्रस्य द्विजशुश्रूषा तयाजीवन्वणि ग्भवेत् । शिल्पैर्वा विविधैर्जीवेद्विजातिहितमाचर ।।' इति प्रागुक्तत्वात् । मनुना चात्र विशेषो दर्शितः (१०॥१००)–“यैः कर्मभिः प्रचरितैः शुश्रुष्यन्ते द्विजातयः । तानि कारुककमणि शिल्पानि विविधानि च ॥' इति । अनेनैव न्यायेनानुलोमोत्पन्नानामपि स्वानन्तरा वृत्तिरूहनीया । एवं स्वानन्तरहीन चर्णवृत्या आपदं निस्तीर्य प्रायश्चित्ताचरणेनात्मानं पावयित्वा पथि न्यसेत् । स्ववृ तावात्मानं स्थापयेदित्यर्थ । यद्वायमर्थः । गर्हितवृत्यार्जितं धनं पथि न्यसेदुः स्सृजेदिति । तथाच मनुः (१०॥१११)–“जपहोमैरपैत्येनो याजनाध्यापनैः कृतम् । प्रतिग्रहृनिमित्तं तु त्यागेन तपसैव तु ॥' इति ॥ ३५ ॥ १ तत्त्वमसीत्यादि ख. २ खू परमात्मशुद्धिः ख.३ साधारणे हि ते इति