आशौचप्रकरणम् १] मिताक्षरासहेिता हीमयम्’ इति । कर्म च शुद्धिनिमित्तं, यथा वक्ष्यति तथा ‘अश्वमेधावभृथला नात्’ इति । तथा मृदपि शुद्धिकारणं, यथा कथितम्–“सलिलं भस्म मृद्वापि प्रक्षेप्तव्यं विशुद्धये' इति । वायुरपि शुद्धिहेतुः, यथोदीरितं ‘मारुतेनैव शुद्धयन्ति इति । मनोऽपि वाचः शुद्धिसाधनं, यथायायि ‘मनसा वा इषिता वाग्वदति इत्यादि ज्ञानं चाध्यात्मिकं बुद्धिशुद्धेौ निदानं यथाभिधास्यति “क्षेत्रज्ञस्ये श्धरज्ञानात्’ इति । तपश्च कृच्ङ्कादि, यथा वदिष्यति ‘प्राजापत्यं चरेरकृच्छू समो वा गुरुतल्पगः' इत्यादि । तथा जलमपि शरीररादेः, यथा जल्पिष्यति ‘वष्र्मणो जलम्’ इति । पश्चात्तापोऽपि शुद्धिजनकः, यथा गदितं ‘ख्यापनेनानुतापेन' इति । निरा हारोऽपि शुडुझ्यपादा नं, यथा व्याहरिष्यति “त्रिरात्रोपोषितो जस्वा' इत्यादि ॥३१॥ अकार्यकारिणां दानं वेगो नद्याश्च शुद्धिकृत् । शोध्यस्य मृच तोयं च संन्यासो वै द्विजन्मनाम् ।। ३२ ।। तपो वेदविदां क्षान्तिर्विदुषां वष्र्मणो जलम् । जपः प्रच्छन्नपापानां मनसः सत्यमुच्यते ।। ३३ ॥ भूतात्मनस्तपोविद्ये बुद्धेर्शनं विशोधनम् । क्षेत्रज्ञसेश्वरज्ञानाद्विशुद्धिः परमा मता ।। ३४ ।। ३२५ अकार्यकारिणां निषिद्धसेविनां दानमेव मुख्यं शुद्धिकारणं, यथा याख्यास्यति “पात्रे धनं वा पर्यासं दत्वा' इति । नद्याः निदाघाद्वल्पतोयतया अमेध्योपहततीरायाः कूलंकषवर्षाम्बुप्रवाहवेगः शुद्धिकृत् । शोधनीयस्य द्रव्यस्य मृच तोयं च शुद्धिकृत्, यथेह भणितम् *अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धा पकर्षणातू’ इति । संन्यासः प्रव्रज्या द्विजन्मनां मानसापचारे शुद्धिकृत । तपो। वेदाभ्यासो वेदविदां शुद्धिकारणम् । कृच्छ्ादि तु सर्वसाधारणं न वेदविदामेव । क्षान्तिरुपशमो विदुषां वेदार्थविदाम् । वष्र्मणः शरीरस्य जलम् । प्रच्छन्नपापानाम विख्यातदोषाणां अघमर्षणादिसूक्तजपः शुद्धिकारणं शुद्धिसाधनम्। मनः सद्सत्सं कल्पात्मकं तस्यासत्संकल्पत्वादशुद्धस्य सत्यं साधुसंकल्पः शोधकम् । भूतशब्देन तद्विकारभूतो देहेन्द्रियैसंघो लक्ष्यते । तत्र स्थूलोऽहं कृशोऽहं काणोऽहं बधिरोऽ हमित्येवं तदभिमानित्वेन योऽयमात्मा वर्तते स भूतात्मा तस्य तपोविद्ये शुद्धिनिमित्त । तपः शब्देनानेकजन्मस्वेकस्मिन्नपि वा जन्मनि जागरस्वमसुषुस्य वस्थास्वात्मनो योऽयमन्वयः, शरीरादेश्च व्यतिरेकः सोऽभिधीयते । यथा ‘तपसा ब्रह्म विजिज्ञासस्व' इति पञ्चकोशव्यतिरेकप्रतिपादनपरे वाक्ये । विद्याशब्देन चौपनिषदं “अस्थूलमनण्वहृस्वमसङ्गो ह्ययमात्मा’ इंत्यादि त्वंपदार्थनिरूपणविष यवाक्यजन्यं ज्ञानमुच्यते । एताभ्यामस्य शुद्धिः । शरीरादिव्यतिरेकबुद्धेः संशय विपर्ययरूपत्वेनाशुद्धायाः प्रमाणरूपं ज्ञानं विशोधनं । क्षेत्रस्य तपोवेिद्याविशुद्धस्य १ जले इत्यादि. २ शोधनम् ङ. ३ न्द्रियसंबन्धो ङ. ४ जाग्रत्स्वझ ख
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५३
दिखावट