पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ याज्ञवल्क्यस्मृतिः । भगिन्यां संस्कृतायां तु भ्रातर्यपि च संस्कृते । मित्रे जामातरि प्रेते दौहित्रे भगिनीसुते ॥ शालके तत्सुते चैव सद्यःखानेन शुद्धयति ॥ ग्रामेश्वरे कुलपतौ श्रोत्रिये वा तपस्विनि । शिष्ये पञ्चत्वमापन्ने शुचिर्नक्षत्रदर्शनात् ॥ ग्राममध्यगतो यावच्छवस्तिष्ठति कस्यचित् । ग्रामस्य तावदाशौचं निर्गते शुचितामियात् ॥ इत्यादीन्याशौचविशेषप्रतिपादकानि स्मृतिवचनान्यन्वेषणीयानि । ग्रन्थगौरव भयादत्र न लिख्यन्ते। एषु चैकविषयगुरुलध्वाशोचवप्रतिपादकतया परस्परविरुद्धेषु संनिधिवेिदेशस्थापेक्षया व्यवस्थानुसंधातव्या ॥ २४ ॥ [ प्रायश्चित्ताध्यायः अनौरसेषु पुत्रेषु भार्याखन्यगतासु च । निवासराजनि प्रेते तदहः शुद्धिकारणम् ॥ २५ ॥ अनुगमनाशाचवमाह किंच । अहरित्यनुवर्तते । अनौरसाः क्षेत्रजदत्तकादयः तेषु जातेघूपरतेषु वाहो रात्रमाशौचवम् । तथा स्वभार्यास्वन्यगतास्वन्यं प्रतिलोमव्यतिरिक्त आश्रितासु अतीतासु चाहोरात्रमेव न पुनः सत्यपि सापिण्डे दशरात्रम् । प्रतिलोमाश्रि तासु चाशौचाभाव एव । पाखण्डयनाश्रिताः स्तेना इत्यनेन प्रतिषेधात् । एतच भार्यापुत्रत्वशब्दयोः संबन्धिशब्दस्वात् यत्प्रातियौगिकं भार्यात्वं पुत्रत्वं च तस्यै वेदमाशौचं । सपिण्डानां त्वाशौचवाभाव एव । अतएव प्रजापतिः–अन्याश्रितेषु दारेषु परपतीसुतेषु च । गोत्रिणः खानशुद्धाः स्युख्चिरात्रेणैव तत्पिता ।' इति । स्वैरिण्याद्यास्तु यमाश्रितास्तस्य तु त्रिरात्रमेव । यथाह विष्णुः–“अनौरसेषु पुत्रेषु जातेषु च मृतेषु च । परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥’ इति त्रिरात्रमत्र प्रकृतम् । अनयोश्च त्रिरात्रैकरात्रयोः संनिधिविदेशस्थापेक्षया व्यवस्था । यदा तु पितुस्त्रिरात्रं तदा सपिण्डानामेकरात्रम् । यथाह मरीचिः ‘सूतके मृतके चैव त्रिरात्रं परपूर्वयोः । एकाहस्तु सपिण्डानां त्रिरात्रं यत्र वै पितः ।।' इति । किंच । निवसत्यस्मिन्निति निवासः स्वदेश उच्यते तस्य यो राजा स्वामी विषयाधिपतिः स यस्मिन्नहनि अतीतस्तदहर्मात्रं शुद्धिकारणम् । रात्रौ वेदतीतस्तदा रात्रिमात्रम् । अतएव मनुः (५॥८२ )-प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितः’ इति । ज्योतिषा सह वर्तते इति सज्योतिरा शौचम् । अह्नि चेद्यावत्सूर्यदर्शनं रात्रौ चेद्यावन्नक्षत्रदर्शनमित्यर्थः ॥ २५ ॥ ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः कचित् । अनुगम्याम्भसि स्नात्वा स्पृष्टाऽग् िघृतभुक्शुचिः ॥२६॥ ब्राह्मणेन असपिण्डेन द्विजो विप्रादिः शूद्रो वा प्रेतो नानुगन्तव्यः । यदि खेहादिनानुगच्छति तदाम्भसेि तडागादिथे स्नात्वामेिं स्पृष्टा धृतं प्राश्य शुचेि भेवेत् । अस्य च घृतप्राशनस्य भोजनक्रार्यविधाने प्रमाणाभावान्न भोजनप्रति