पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६ याज्ञवल्क्यस्मृति [ श्चित्ताध्यायः सर्वे ते शुचथः स्मृताः ॥' इति । तथाशौचपरिग्रहत्वेऽपि केषुचेि भावः । यथाह मरीचिव –“लवणे मधुमांसे च पुष्पमूलफलेषु काष्ठतृणेष्वप्सु दधिसर्पिःपयस्सु च ॥ तिलौषधाजिने चैव पछापके दावे. अपकं तण्डुलादि । स्वयंग्रह इति स्वयमेव स्वाम्यनुज्ञातो गृह्णीया। :चयः पछापकाभ्यनुज्ञानमझसत्रप्रवृत्तविषयम् । ‘अन्नसत्रप्रवृत्तानामाममन्नमग.ि भुक्त्वा पञ्चान्नमेतेषां त्रिरात्रं तु पयः पिबेत् ॥’ इत्यङ्गिरःस्मरणात् । पकशब्दो भक्ष्यव्यतिरिक्तौदनादिविषयः ॥ शवसंसर्गनिमित्ताशौचे त्वङ्गिरस् विशेष उक्तः–‘आशौचं यस्य संसर्गादापतेदृहमेधिनः । क्रियास्तस्य न लुप्यू गृह्याणां च न तद्भवेत् ॥' इति । तदाशौचं केवलं गृहमेधिन एव न पुनस्त भवानां भार्यादिनां तद्रव्यणां च भवेदित्यर्थः । अतिक्रान्ताशौचेऽप्ययमेवार्थे. स्मृत्यन्तरे दर्शित –‘अतिक्रान्ते दशाहे तु पश्चाज्जानाति चेद्वही । त्रिरात्रं सूतकं तस्य न तद्रव्यस्य कर्हिचित् ॥' इति ॥ १७ ॥ एवमाशौचिनो विधिप्रतिषेधरूपान्धर्मानभिधायाधुना आशौचनिमित्तं काल नियमं चाह त्रिरात्रं दशरात्रं वा शावमाशौचमिष्यते । ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ॥ १८ ॥ शवनिमित्तं शावम् । सूतकशब्देन च जननवाचिना तन्निमित्तमाशौचं लक्ष्यते । एवं च वदता जननमरणयोराशौचनिमित्तत्वमुक्तं भवति । तच्च जनन मरणमुत्पन्नज्ञातमेव निमित्तम् । “निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च' इत्यादिलिङ्गदर्शनात् । तथा-‘विगतं तु विदेशस्थं शणुयाद्यो ह्यनिर्दशम् । यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ।।' इत्यादिवाक्यारम्भसामथ्यच । उत्पत्ति मात्रापेक्षत्वे ह्याशौचस्य दशाहाद्याशौचवकालनियमास्तत्तत्प्रभृतिका एवेति अनिर्द शज्ञातिमरणश्रवणे दशरात्रशेषमेवाशौचमर्थात्सिद्धयतीति ‘यच्छेषं दशरात्रस्य इत्यनारम्भणीयं स्यात् । तस्माज्ज्ञातमेव जननं मरणं च निमित्तम् । तचोभय निमित्तमप्याशौचं त्रिरात्रं दशरात्रं चेष्यते मन्वादिभिः ॥ अत्राशौचप्रकरणे अहम्हणं रात्रिग्रहणं चाहोरात्रेोपलक्षणार्थम् । मन्वादिभिरिष्यत इति वचनं तदुक्तसपिण्डसमानोदकरूपविषयभेदप्रदर्शनार्थम् ॥ तथाहि-‘दशाहं शावभा द्रौचं सपिण्डेषु विधीयते । जननेऽप्येवमेव स्यान्निपुणां शुद्धिमिच्छताम् ॥ जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते । शवस्पृशो विशुद्धयन्ति व्यहातूदक दायिनः ॥' इत्येतैर्वाक्यैस्त्रिरात्रदशरात्रयोः समानोदकसपिण्डविषयत्वेन व्यवस्था कृता । अतः सपिण्डानां सप्तमपुरुषावधिकानामविशेषेण दशरात्रम् । समानोदकानां त्रिरात्रमिति ॥ यत्पुनः स्मृत्यन्तरवचनम्--'चतुर्थे दशरात्रं १ अनुशातमन्त्रं ख.