पृष्ठम्:याज्ञवल्क्यस्मृतिः/३३३

विकिस्रोतः तः
(पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३३३ इत्यस्मात् पुनर्निर्दिष्टम्)
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् १] मिताक्षरासहिता । ३० ५ पादेनोक्तम्—‘स्मार्तकर्म परित्यागो राहोरन्यत्र सूतके । श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवामुयात् ॥’ इति श्रौतानां च कार्यत्वाभिधानं नित्यनैमित्तिकाभिः प्रायेण । यथाह पैठीनसि :-‘नित्यानि विनिवर्तरन्वैतानवर्ज शालाझौ चैके इति । नित्यानि विनिवर्तेरन्नित्यविशेषेण आवश्यकानां नित्यनैमित्तिकानां निवृत्त प्रसक्तायां वैतानवर्जमित्यन्नित्रयसाध्यावश्यकानां पर्युदासः । ‘शालादो चेक’ इति गृह्याद्वैौ भवानामप्यावश्यकानां पाक्षिकः पर्युदास उक्तः । अतस्तेष्वाशौचं नास्त्येव । काम्यानां पुनः शौचाभावाद्ननुष्ठानम् । मनुनाप्यनेनैवाभिप्रायेणोक्तम् (५॥८४ ) ‘प्रत्यूहेन्नाग्निषु क्रिया' इति । अग्निषु क्रिया न प्रत्यूहेदिति अनग्निसाध्यानां पञ्चमहायज्ञादीनां निवृत्ति । अतएव संवर्तः–“होमं तत्र प्रकुर्वीत शुष्कान्नेन फलेन वा । पञ्चयज्ञविधानं तु न कुर्यान्मृत्युजन्मनो ।।' इति । वैश्वदेवस्यान्निसाध्यत्वेऽपि वचनान्निवृत्तिः । ‘विप्रो दृशाहमासीत वैश्वदेव विवर्जितः’ इति तेनैवोक्तत्वात् । ‘सूतके कर्मणां त्यागः संध्यादीनां विधीयते इति यद्यपि संध्याया विनिवृत्तिः श्रूयते तथाप्यञ्जलिप्रक्षेपाद्विर्वकं कुर्यात् । सूतके सावित्र्या वाञ्जलिं प्रक्षिप्य प्रदक्षिणं कृत्वा सूर्य ध्यायन्नमस्कुर्यात्' इति पैठीनसिस्मरणात् । यद्यपि ‘वैतानौपासनाः कार्या' इति सामान्येनोक्तं तथाप्य येन कारयितव्यम् । ‘अन्य एतानि कुर्युः’ इति पैठीनसिस्मरणात् । बृहस्पति नाप्युक्तम्—‘सूतके मृतके चैव अशक्तौ श्राद्धभोजने । प्रवासादिनिमित्तेषु हावयेन्न तु हापयेत् ।।' इति । तथा स्मार्तत्वेऽपि पिण्डपितृयज्ञश्रवणाकभश्वयु ज्यादिकश्च नित्यहोमः कार्य एव । ‘सूतके तु समुत्पन्ने स्मार्त कर्म कथं भवेत् । पिण्डयज्ञ चरुहोममसगोत्रेण कारयेत् ॥’ इति जातूकण्यैस्मरणात् । यद्यपि साङ्गे कर्मण्यन्यकर्तृत्वं तथापि स्वद्रव्यत्यागात्मकं प्रधानं स्वयं कुर्यात् । तस्यान यनिष्पाद्यत्वात् । अतएवोक्तम् --'श्रौते कर्मणि तत्कालं खातः शुद्धिमवापुयात्। इति यत्पुनः ‘दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते’ इति होमप्रतिषेध स काम्याभिप्रायो वैश्वदेवाभिप्रायो वा व्यवस्थापनीयः । तथा सूतकान्नभोजन मपि न कार्यम् । ‘उभयत्र दशाहानि कुलस्यान्न न भुज्यते’ इति यमस्मरणात उभयत्र जननमरणयोः । दशाहानित्याशौचवकालोपलक्षणम् । कुलस्य सूतक युक्तस्य संबन्ध्यन्न असकुख्यैर्न भोक्तव्यं । सकुल्यानां पुनर्न दोषः । ‘सूतके तु कुलस्यान्नमदोषं मनुरब्रवीत्’ इति तैनेवोक्तत्वात् । अयं च निषेधेो दातृभोक्त्रोर न्यतरेण जनने मरणे वा ज्ञाते सति वेदितव्य । ‘उभाभ्यामपरिज्ञाते सूतकं नैव दोषकृत् । एकेनापि परिज्ञाते भोक्कुदोषमुपावहेत् ॥ इति षट्त्रंशन्मत दर्शनात् । तथा विवाहादिषु सूतकोत्पत्तेः प्राकू ब्राह्मणार्थ पृथकृतमन्न भोक्तव्य मेव । ‘विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । पूर्वसंकल्पितार्थेषु न दोषः परि कीर्तितः ॥’ इति बृहस्पतिस्मरणात् । तथापरोऽपि विशेषः षटूत्रिंशन्मते दार्शितः–“विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । परैरलं प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः ॥ भुञ्जानेषु तु विप्रेषु त्वन्तरा मृतसूतके । अन्यगेहोदकाचान्ता