पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतःि । [ प्रायश्चित्ताध्यायः नरशिरःकपालादि श्रुतिबाह्यलिङ्गधारणं पाखण्डं तद्विद्यते येषाँ ते पाखण्डिनः। अनाश्रिताः अधिकारे सत्यप्यकृताश्रमविशेषपरिग्रहाः । स्तेनाः सुवर्णाद्युत्तमद्भ व्यहारिणः । भर्तृश्यः प्रतिघातिन्यः । कामगाः कुलटा । आदिग्रहणात्स्वगर्भ ब्राह्मणघातिन्यो गृह्यन्ते । सुराप्यो यासां या सुरा प्रतिषिद्धा तत्पानरताः । आत्मत्यागिन्यः विषाझ्युदकोद्वन्धनाचैरात्मानं यास्त्यजन्ति । एते पाखण्ड्यादयः त्रिरात्रं दशरात्रं वा’ इति वक्ष्यमाणस्याशौचस्योदकदानाद्यौध्र्वदेहेिकस्य च भाज ना न भवन्ति । भाजयन्तीति भाजनाः सपिण्डादीनामाशौचादिनिमित्तभूता न भवन्ति । अतस्तन्मरणे सपिण्डैरुदकदानादि न कार्यमित्येतत्प्रतिपादनपरं वचनम्। अत्र च सुराप्य इत्यादिषु लिङ्गविवक्षितम् ।-लिङ्ग च वचनं देशः कालोऽयं कर्मष्णः फलम् । मीमांसाकुशलाः प्राहुरनुपादेयपञ्चकम् ।।' इत्यनुपादेयगतत्वात् । एतच बुद्धिपूर्वत्रिषयम् । यथाह गौतमः–“प्रायोऽनाशकशस्राग्निविषोदको द्वन्धनप्रपतनैश्चेच्छताम्' इति । प्रायो महाप्रस्थानम् । अनाशकमनशनम् । ि गिरि शिखराद्वपातः प्रपतनम् । अत्र चेच्छतामिति विशेषणोपादानात्प्रमादकृत्ये दोषो नास्तीत्यवगन्तव्यम् ।–“अथ कश्चित्प्रमादेन म्रियेतायुदकादिभिः । तस्याशौचं विधातव्यं कर्तव्या चोदकक्रिया' इति अङ्गिरःस्मरणात ! तथा मृत्युविशेषादपि आशौचादिनिषेधः–“चाण्डालादुदकात्सपब्राह्मणाद्वैद्युता दपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम् ॥ उदकं पिण्डदानं च प्रेतेभ्यो यत्प्रदीयते । नोपतिष्टति तत्सर्वमन्तरिक्षे विनश्यति ।।' इति । एतदपीच्छापूर्व मात्महननविषयम् । गौतमवचनेनेच्छापूर्वकमेवोदकेन हतस्याशौचादिनिषेध स्योक्तत्वात् । अत्रापि ‘चण्डालादुदकात्सपदि'ति तत्साहचर्यदर्शनाडुद्धिपूर्व षयत्वनिश्चयः । अतो दृपदिना चण्डालादीन्हन्तुं गतो यस्तैर्मारितस्तस्यायं सर्वत एवात्मानं गोपायेदिति विध्यतिक्रमनिमित्तः पिण्डदानादिनिषेधः एवं दुष्ट दंष्ट्रयादिग्रहणार्थमाभिमुख्येन दपद्भच्छतो मरणेऽप्ययं निपेध इत्यनुसंधेयम् । अयं चाशौचप्रतिषेधो दशाहादिकालावच्छिन्नस्य । “हतानां नृपगोविप्रैरन्वक्ष चात्मघातिनाम्’ इति सद्य:शौचस्य वक्ष्यमाणत्वात् । लथा दाहादिकमप्येषां न कार्यम्–“नाशौचं नोदकं नाश्रु न दाहाद्यन्त्यकर्म च । ब्रह्मदण्डहतानां च न कुर्यात्कटधारणम् ॥' इति यमस्मरणात् । ब्रह्मदण्डहता ब्राह्मणदण्डहताः । प्रेतवहनसाधनं खट्रादि कटशब्देनोच्यते । न चाहिताग्निमन्निभिर्दहन्ति यज्ञपा त्रैश्चेत्येतत् श्रुतिविहिताग्यिज्ञपात्रादिप्रतिपत्तिलोपप्रसङ्गात् अयं समात दाहादि निषेधो विप्रादिहताहिताग्निविषयं नास्कन्दतीत्याशङ्कनीयम् । यतश्चण्डालादिह ताहिताझिसंबन्धिनामझियज्ञपात्राणां स्मृत्यन्तरे प्रतिपत्त्यन्तरं विधीयते । “वैतानं प्रक्षिपेदप्सु आवसथ्यं चतुष्पथे । पात्राणि तु दहेदौ यजमाने वृथा मृते ।।' इति । तथा तच्छरीरस्यापि प्रतिपत्त्यन्तरमुक्तम्--‘आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया । तेषामपि तथा गङ्गातोये संस्थापनं हितम् ॥' इति स्मरणात् । तस्मादविशेषेण सर्वेषां दहनादिनिषेध । अतः खेहादिना निषेधातिक्रमे प्राय १ इदं पद्य क. ग. पुस्तकयोनस्ति