पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्त्रीसंग्रहणप्रकरणम् २४ ] मिताक्षरासहिता । २८७ स्थायाः साधारणत्वम् । पित्रादिपरिरक्षितायाः कन्याया एव दानोपदेशात् । दात्रभावेऽपि तथाविधाया एव स्वयंवरोपदेशात् । नच दासीभावात्स्वधर्माधि कारच्युतिः । पारतन्यं हि दास्यं न स्वधर्मपरित्याग । नापि वेश्या साधारणी वर्णानुलोमजव्यतिरेकेण गम्यजात्यन्तरासंभवात् । तदन्तःपातित्वे च पूर्ववदे वागम्यत्वम् । प्रतिलोमजत्वे तु तासां नितरामगम्यत्वम् । अतः पुरुषान्तरोप भोगे तासां निन्दितकर्माभ्यासेन पातित्यात् । पतितसंसर्गस्य निषिद्धत्वाच्च न सकलपुरुषोपभोगयोग्यत्वम् । सत्यमेवम् । किं त्वत्र स्वैरिण्याद्युपभोगे पित्रा देरक्षकराजदण्डभयादिदृष्टदोषाभावाद्भम्यत्ववाचोयु । दण्डाभावश्वावरुद्धासु दासीष्विति नियतपुरुषपरिग्रहोपाधितो दण्डविधानात्तदुपाधिरहितास्वर्थादव गम्यते । खैरिण्यादीनां पुनर्दण्डाभावो विधानाभावात् ॥ ‘कन्यां भजन्तीमुत्कृष्टाँ न किंचिदपि दापयेत् ॥' इति लिङ्गनिदर्शनाचावगम्यते । प्रायश्चित्तं तु स्वधर्म स्खलननिमित्तं गम्यानां गन्तृणां चाविशेषाद्भवत्येव । यत्पुनर्वेश्यानां जात्य न्तरासंभवेन वर्णान्तःपातित्वमनुमानादुक्तम्-“वेश्या वर्णानुलोमाद्यन्तःपा तिन्यो मनुष्यजात्याश्रयत्वात् ब्राह्मणादिवत्’ इति । तन्न । तत्र कुण्डगोलकादि भिरनैकान्तिकत्वात् । अतो वेश्याख्या काचिजातिरनादिर्वेश्यायामुकृष्टजाते समालजातेव पुरुषादुत्पन्ना पुरुषसंभोगवृत्तिर्वेश्येति ब्राह्मण्यादिवलोकप्रसिद्धिः बलाद्भ्युपगैमनीयम् । नच निर्ममूलेयं प्रसिद्धिः । स्मर्यते हि स्कन्दपुराणे

  • पञ्चचूडा नाम काश्चनाप्सरसस्तत्सन्ततिर्वेश्याख्या पञ्चमी जातिः’ इति । अतस्तासां

नियतपुरुषपरिणयनविधिविधुरतया समानोत्कृष्टजातिपुरुषाभिगमने नादृष्टदोषो नापि दण्ड । तासु चानवरुद्धासु गच्छतां पुरुषाणां यद्यपि न दण्डस्तथाऽप्यदृष्ट दोषोऽस्त्येव । (३॥४५) ‘स्वदारनिरतः सदा' इति नियमात् ।–“पशुवेश्याभि गमने प्राजापत्यं विधीयते'इति प्रायश्चित्तस्मरणाचेति निरवद्यम् ॥ २९० ॥ अवरुद्धासु दासीषु' इत्यनेन दासीखैरिण्यादिभुजिष्याभिगमने दण्डं वेिद धतस्तास्वभुजिष्यासु दण्डो नास्तीत्यर्थादुक्तं तदपवादमाह प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः । बहूनां यद्यकामासौ चतुर्विंशतिकः पृथक् ।। २९१ ।। पुरुषसंभोगजीविकासु दासीषु स्वैरिण्यादिषु शुल्कदानविरहेण प्रसह्य बला त्कारेणाभिगच्छतो दशपणो दण्डः । यदि बहव एकॅामनिच्छन्तीमपि बलात्कारे णाभिगच्छन्ति तर्हि प्रत्येकं चतुर्विशतिपणपरिमितं दण्डं दण्डनीयाः । यदा पुनस्तदिच्छया भाटिं दत्त्वा पश्चादनिच्छन्तीमपि बलाद्भजन्ति तदा तेषामदोषः । यदि व्याध्याद्यभिभवस्तस्या न स्यात् ।–‘व्याधिता सश्रमा व्यग्रा राजकर्मप रायणा । आमत्रिता चेन्नागच्छेददण्ड्या वडवा स्मृता ॥' इति नारद्वचनात् ॥ १ स्वर्थाद्भम्यते घ. २ मुत्कृष्टं घ. ३ उपगमनीया घ. ४ मनभिलषन्तीं घ